SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [३१३ खदिर-चूर्णक-सेल्लक-पाटलादिजलं च नीतरितं गालितं वा नान्यथा । शास्त्रेषु मधु-गुडशर्करा-खण्डादिस्वाद्यतया द्राक्ष-शर्करादिजलं तक्रादि च पानकतया उक्तं, परं द्विविधाहारादौ न कल्पते, उक्तं च नागपुरीयगच्छप्रत्याख्यानभाष्ये दक्खापाणाईयं, पाणं तह साइमं गुडाईयं ।। पढियं सुअंमि तह वि हु , तित्तीजणगं तु नायरियं ॥ [ ना.प्र.भा.] इति श्राद्धविधौ ॥४८॥ ___ वासासु सगदिणोवरि, पन्नरसदिणोवरिं च हेमंते । जायइ य सचित्तं से, गिम्हे मासोवरिं लोणं ॥ इति व्यवहारनिर्युक्तौ ॥४९॥ ननु इत्थं तावत् सर्वत्र भव्यस्यैव सम्यक्त्वलाभ उक्तः, अभव्यस्य तु का वार्तेत्याह तित्थकराइयपूअं, दट्टण णेण वावि कज्जेण । सुअसामाइयलंभो, होइ अभवस्स गंठिम्मि" ॥ इति विशेषावश्यके ॥५०॥ अभिप्रायस्तूभयत्रापि सुगम एव । ___ अथ केचित् साध्वीनां पृथग्विहारमुचितं मन्यन्ते, अपरे तु गृहस्थैः सह साध्वीनां विहारमुचितं मन्यन्ते ते उभयेऽपि सिद्धान्तबाह्या ज्ञेयाः । यथा जत्थ य गोअम ! साहू , अज्जाहिं समं पहंमि अट्ठणा। अववाएण वि गच्छेज्जा, तत्थ गच्छंमि का मेरा ॥१॥[म.नि./मू.७७० ] इत्यत्र यद्यष्टोनैः साधुभिरपि सह साध्वीनां गमनं नानुज्ञातं तर्हि कथं गृहस्थैः सह एकाकिनीनां वा विहां कल्पते ? इति बोध्यम् । इति श्रीमहानिशीथपञ्चमाध्ययने ॥५१॥ अथायं लोकः कीदृशाकार: ? कथं च व्यवस्थित इति विचारो लिख्यते वेत्रासनसमोऽधस्तान्मध्यतो झल्लरीनिभः। अग्रे मुरजसङ्काशो, लोकः स्यादेवमाकृतिः ॥१०५॥ वृत्तिर्यथा-अधस्तादधोभागे वेत्रासनमधस्ताद्विस्तीर्णमुपर्युपरि सङ्कोचवत्तत्समस्तदाकारः । मध्यतो-मध्ये झल्लरीवाद्यविशेषस्तत्सदृशः । अग्रे मध्यलोकादुपरि मुरज ऊर्ध्वमधश्च सङ्कुचितो मध्यभागे विस्तृतो वाद्यविशेषस्तत्सदृशः । एवमधोमध्योद्धेषु आकारत्रययोगी लोकः । यदाहु:-"तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् , स्थालमिव तिर्यग्लोकम् , D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy