SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [२९३ नो कप्पइ निग्गंथाणं वा निगंथीण वा खुड्डगस्स वा खुड्डियाए वा अवंजणजायस्स आयारपकप्पे नामं अज्झयणे उद्दिसित्तए ।१। कप्पइ निग्गंथाण वा निग्गंथीण वा खुड्डगस्स वा खुड्डियाए वा वंजणजायस्स आयारपकप्पे नामं अज्झयणे उद्दिसित्तए ।२। तिवासपरियागस्स समणस्स निग्गंथस्स कम्पति आयारपकप्पे नामं अज्झयणे उद्दिसित्तए ॥ इत्यादि । व्यवहारदशमोद्देशकोक्तेन विधिना सूत्रं पाठनीयम् । इति गच्छाचारप्रकीर्णके 'विहिणा जो उ चोएइ' इति गाथा २४ वृत्तौ ॥६॥ परिशटितवस्त्रे यावन्ति थिग्गलानि ग्रन्थयश्च कल्पन्ते तल्लिख्यते "जे भिक्खू वत्थस्स एगं पडियाणियं देइ देंतं वा सातिज्जति" ॥[नि.सू./ ४७] त्ति । यो वस्त्रस्यैकं थिग्गलं ददाति, ददतं वा स्वादयति-अनमोदयति तस्या दोषाः । द्वौ कल्पौ सौत्रिको एक औणिको ग्राह्यः, वर्षाकालं विना और्णिक एकको न व्यापार्यो मध्ये सौत्रिको बहिरौणिक इति विधिपरिभोगः । औणिके शरीरे लग्ने षट्पदिकादिजन्तुसंसक्त्यादिदोषाः स्युः।। "जे भिक्खू वत्थस्स परं तिण्हं पडियाणियं देइ देंतं वा सातिज्जइ" ॥ [नि.सू./४८ ] त्ति । य: कारणे त्रयाणां थिग्गलानां परतश्चतुर्थं थिग्गलं ददाति तस्य प्रायश्चित्तम्। ___ "जे भिक्खू अविहीए वत्थं सिव्वति, सिव्वंतं वा सातिज्जइ" ॥ त्ति । अविधिसीवनं यथा गृहस्थानां पार्श्वद्वयमीलनेन सीवनं तथा न सीव्येत् । "जे भिक्खू वत्थस्स एगं फालियगंठियं करेइ, करेंतं वा सातिज्जति" ॥ [नि.सू./४९] [नि.सू./५० ] त्ति । पाटितवस्त्रस्योभयोरञ्चलयोर्मीलनेन ग्रन्थि ददाति, अधिकं मा पाटयत्विति । "जे भिक्खू वत्थस्स परं तिण्हं फालियगंठियाणं करेइ करेंतं वा सातिज्जति" ॥ [नि.सू./५१] त्ति । वस्त्रे ग्रन्थिस्तावदुत्सर्गतो न कार्यः, यदि वस्त्रस्यालाभे ग्रन्थि करोति तदा त्रयाणां ग्रन्थीनामधिकं ग्रन्थि न कुर्यात् । इति श्रीगच्छाचारप्रकीर्णके 'देसं खित्तं तु जाणित्ता' इत्येतद्गाथा १४ वृत्तौ १२ पत्रे ॥७॥ जघन्यतोऽप्यधीताचारप्रकल्पस्यैव निश्रया विहर्त्तव्यमित्यभिप्रायो लिख्यते आयारपकप्पधरा, चोद्दसपुव्वी य जे य तं मज्झा । तन्नीसाइ विहारो, सबालवुड्डस्स गच्छस्स ॥१॥[ बृ.भा./६९३] D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy