SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ७] [श्रीविचाररत्नाकरः एतैरवलोकितेषु च लग्नेषु आलोचयेत् । तथा तिस्रो दिश: प्रशस्ता ग्राह्याः, तद्यथा-पूर्वा उत्तरा चरन्ती, चरन्ती नाम यस्यां स भगवानर्हन् विहरति, सामान्यतः केवलज्ञानी, मन:पर्यायज्ञानी, अवधिज्ञानी, चतुर्दशपूर्वी, त्रयोदशपूर्वी यावन्नवपूर्वी, यदि वा यो यस्मिन् युगप्रधानः आचार्यः स वा यया विहरति, एतासां तिसृणामन्यतमस्या दिशोऽभिमुखं आलोचनार्होऽवतिष्ठते । तस्येयं सामाचारीनिसज्जऽसति पडिहारिय, किइकम्मं काउ पंजलुक्कुडुओ। बहुपडिसेवऽरिसासु य, अणुण्णवेउं निसिज्जगतो ॥११॥[ व्य.भा./३१५ ] आत्मीयकल्पैरपरिभुक्तैराचार्यस्य निषद्यां करोति, असति-आत्मीयकल्पानामभावेऽन्यस्य सक्तान् प्रातिहारिकान् कल्पान् गृहीत्वा करोति, कृत्वा च यद्याचार्यः पूर्वाभिमुखो निषीदति तत आलोचको दक्षिणत उत्तराभिमुखोऽवतिष्ठते, यद्याचार्य उत्तराभिमुखो निषण्णस्तत आलोचको वामपार्श्वे पूर्वाभिमुखस्तिष्ठति, चरन्तीं वा दिशं प्रत्यभिमुखो भवति, ततः कृतिकर्म-द्वादशावर्त्तवन्दनकं कृत्वा प्रबद्धोऽञ्जलिर्येन स प्रबद्धाञ्जलि: उत्सर्गत उत्कुटुकस्थितः सन्नालोचयेत् , यदि पुनर्बहुप्रतिसेवितमस्तीति चिरेणालोचना परिसमाप्ति यास्यति तावन्तं च कालमुत्कुटुक: स्थातुं न शक्नोति, यदि वा अर्शोरोगवत उत्कुटुकस्य सतोऽऑसि क्षोभमुपयान्ति, ततो बहुप्रतिसेवी अर्श:सु च सत्सु गुरुमनुज्ञाप्य निषद्यायामौपग्रहिकपादप्रोञ्छने वा अन्यस्मिन् वा यथार्हे आसने स्थित आलोचयति ।। किं पुनस्तदालोचनीयमुच्यते-चतुर्विधं द्रव्यादि, तथा चाहचैयणमचित्तदैव्वं, जणवेयमद्धाण होति खित्तंमि । दिणनिसि सुभिक्खदुब्भिक्खकाले भावंमि हिट्ठियरे ॥१२॥[ व्य.भा./३१६ ] द्रव्यतश्चेतनं-सचित्तमुपलक्षणमेतत् , मिश्रं वा, अचित्तं-अचेतनं वा, अकल्पिकं यत्प्रतिसेवितं, क्षेत्रतो जनपदे अध्वनि वा, कालतो दिने निशि वा यदि वा सुभिक्षे दुर्भिक्षे वा भावे 'हिट्ठियरे' सप्तमी तृतीयार्थे हृष्टेन इतरेण वा ग्लानेन सता यतनयाऽयतनया वा दर्पतः कल्पतो वा, तदालोचयति । १. अणुण्णावेउ पा. । २. निसेज्जगतो पा. । ३. व्य.नि.६८गा. । ४. °दव्वे पा. ५. वय मग्गे वि होइ । ०मग्गे य होति । पा. D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy