SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरेऽपरतटे ॥ पञ्चमस्तरङ्गः ॥ पीयूषपुद्गलाः खलु, निखिलाः परिणामिताः श्रुतत्वेन । गणिपुङ्गवेन तदिदं, मधुरं तदलभ्यमपि लोके ॥१॥ अथ श्रीव्यवहारविचारा यथा-तत्र च केचिन्नीचकुलपिण्डनिषेधविषये प्रज्ञाप्यमाना वदन्ति-न ह्येते छिम्पकादयो नीचाः, किं तु ते म्लेच्छधिग्जात्यादयः, परं तन्न किञ्चित् , एतेऽपि तथैव । यथा लोगुत्तरपरिहारो दुविहो, परिभोग-धरणे य । अत्रैवं व्युत्पत्तिः-परिहरणं परिहारः, 'लोगुत्तरवज्जं इत्तरिय' 'वज्जं' वर्ण्यम् , तद् द्विधा-'लोग'त्ति लौकिकं, 'उत्तर' त्ति लोकोत्तरम् , लौकिकं द्विधा-इत्वरं यावत्कथिकं च, तत्रेत्वरं यत्सूतकमृतकादि तथा लोके सूतकादि दशदिवसान् यावद्वय॑ते च इति, यावत्कथिकं च वरुडछिम्पकचर्मकारडोम्बादि, एते हि यावज्जीवं शिष्टैः सम्भोगादिना वय॑न्ते । लोकोत्तरमपि वयं द्विधा-इत्वरं यावत्कथिकं च, तत्रेत्वरं “दाणे अभिगमसड्ढे"[ ] इत्यादि । यावत्कथिकं "अट्ठारस पुरिसेसुं , वीसं इत्थीसु दस नपुंसेसु"[ ] इत्यादि । इति श्रीव्यवहारभाष्यवृत्ती प्रथमोद्देशे कैटगमादी दव्वे' इत्येतद्गाथायां ६५९ प्रतौ ५८ पत्रे ॥१॥ अथ येषु द्रव्यक्षेत्रकालभावेषु येन विधिनाऽऽलोचना ग्राह्या तल्लिख्यते-तत्र यदुक्तमधस्तात् “अवहारे दिवसतो पसत्थंमि" तदिदानी व्यारव्यानयति दैव्वादिचउरभिग्गह, पसत्थमपसत्थते दुहेक्केका । अपसत्थे वज्जेउं, पसत्थएहिं तु आलोए ॥१॥[व्य.भा./३०५] अपराधलोचनायां दीयमानायां विधिर्वक्तव्यः, तत्र यदुक्तमधस्तात् द्रव्यादयो द्रव्यक्षेत्रकालभावाश्चत्वारश्चतुःसङ्ख्याका अपेक्षणीया भवन्ति । तथा 'अभिग्गह'त्ति दिशामभिग्रह: कर्त्तव्यः । ते च द्रव्यादयो दिशश्चैकैके प्रत्येकं द्विधा द्विप्रकाराः तद्यथा-प्रशस्ताः १. व्य.भा./२११ गा. । २. व्य.भा./२४६ गा. मध्ये । ३. व्य.नि./६५ ।
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy