SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङ्गः ] उग्गमउप्पायणसुद्धं, एसणादोसवज्जियं । उवहिं धारए भिक्खू, जोगाणं साहणट्टया ॥ १०६५॥ सुगमम् । नवरं योगाः संयमात्मका गृह्यन्ते, तेषां साधनार्थमिति । नवरं अध्यात्मविशुद्धया उपकरणं ग्राह्यम्, पात्रकादि परिहरन्तो भणितो जिनैस्त्रैलोक्यदर्शिभिः, अतो यत्किञ्चिद्धर्मोपकरणं तत्परिग्रहो न भवति । अत्राह - कश्चिद्बोटिकपक्षपाती - यद्युपकरणसहिता अपि निर्ग्रन्था उच्यन्ते, एवं तर्हि गृहस्था अपि निर्ग्रन्थाः, यतस्तेऽपि उपकरणसहिता वर्त्तन्ते ॥ १०६५॥ अत्रोच्यते अज्झप्पविसोहीए, जीवनिकाएहि संथडे लोए । देसियमहिंसगत्तं, जिणेहि तेलुक्कदंसीहिं ॥ १०६६॥ [ २३५ नन्विदमुक्तमेव यदुताध्यात्मविशुद्धया सत्युपकरणे निर्ग्रन्थाः साधवः । किञ्च यद्यध्यात्मविशुद्धिर्नेष्यते ततो ‘जीवनिकाएहि संथडे लोए' इति, जीवनिकायैर्जीवसङ्घातैरयं लोकः संस्तृतो वर्त्तते, ततश्च जीवनिकायसंस्तृते व्याप्ते लोके कथं नग्नञ्चङ्क्रमन् वधको न भवति । यद्यध्यात्मविशुद्धिर्भेष्यते, तस्मादध्यात्मविशुद्धया देशितमहिंसकत्वं जिनैस्त्रैलोक्यप्रदर्शिभिरिति ॥१०६६॥ क्व प्रदर्शितं तदित्यत आह उच्चालियंमि पाए, ईरियासमियस्स संकमट्ठाए । वावज्जेज्ज कुलिंगी, मरिज्ज तं जोगमासज्ज ॥१०६७॥ 'उच्चालियंमि' इत्यादि, उच्चालिते उत्पाटिते पादे सति ईर्यासमितस्य साधोः सङ्क्रमार्थमुत्पाटिते पादे इत्यत्र सम्बन्धः, व्यापद्येत सङ्घट्टनपरितापनेन कः कुलिङ्गी ? कुत्सितानि लिङ्गानि-इन्द्रियाणि यस्यासौ कुलिङ्गी द्वीन्द्रियादिः, स परिताप्येत उत्पाटिते पादे सति म्रियते चासौ कुलिङ्गी, तं व्यापादनयोगमासाद्य ॥ १०६७॥ न य तस्स तन्निमित्तो, बन्धो सुहुमो वि देसिओ समए । अणवज्जो उपओगेण, सव्वभावेण सो जम्हा ॥ १०६८ ॥ न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि देशितः समये - सिद्धान्ते, किं कारणम् यतोऽनवद्योऽसौ साधुस्तेन व्यापादनप्रयोगेण - व्यापादनव्यापारेण, कथम् सर्वभावेन सर्वात्मना मनोवाक्कायकर्मभिरनवद्योऽसौ, यस्मात् न सूक्ष्मोऽपि बन्धस्तस्येति ॥१०६८॥ D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy