SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २४] [श्रीविचाररत्नाकरः संसारस्था जीवा भाषालब्धिरहिताः पृथिव्यादय इत्यर्थः, ते सर्वेऽपि व्यावहारिकराश्यनुगता भाषालब्धि प्राप्य प्रतिपतितत्वात् श्रुतप्रतिपतिता मन्तव्याः, ते च सम्यक्त्वप्रतिपतितेभ्योऽनन्तगुणाः ॥६॥ अधुनान्तरद्वारमाह-सकृदवाप्तमपगतं पुनः सम्यक्त्वादि कियत्कालेनावाप्यते तत्राक्षरात्मकाविशिष्टश्रुतस्यान्तरं जघन्यतोऽन्तर्मुहूर्तम् , उत्कृष्टं त्वाह १कालमणंतं च सुए, अद्धापरियट्टओ य देसूणो । आसायणबहुलाणं, उक्कोसं अंतरं होइ ॥७॥ एकजीवं प्रति कालोऽनन्त एवान्तरं श्रुतेऽक्षरात्मके उत्कर्षतो भवतीति योगः । केषां ? आशातनाबहुलानां इति ॥७॥ साम्प्रतमविरहितद्वारमाह-अथ कियन्तं कालं अविरहेण एको द्वयादयो वा सामायिकं प्रतिपद्यन्ते ? इत्याह २सम्मसुअमगारीणं, आवलिअअसंखभागमेत्ताओ। अट्ठसमया चरित्ते, सव्वे वि जहन्न दो समया ॥८॥ सम्यक्त्वश्रुतदेशविरतिसामायिकानां नैरन्तर्येण प्रतिपत्तिकाल आवलिकासङ्ख्येयभामात्राः समयाः, तथा अष्टौ समयाश्चारित्रे निरन्तरं प्रतिपत्तिकालः, सर्वेषां जघन्योऽविरहितप्रतिपत्तिकालो द्वौ समयाविति गाथार्थः ।।८।। अथ विरहकालद्वारं प्रदर्श्यते३सुअसम्म सत्तयं खलु, विरयाविरईअ होइ बारसगं । विरईए पन्नरसगं, विरहिअकालो अहोरत्ता ॥९॥ श्रुतसम्यक्त्वयोरुत्कृष्टः प्रतिपत्तिविरहकालः सप्तकं-अहोरात्रसप्तकम् , ततः परमवश्यं क्वचित् कश्चित् प्रतिपद्यते, जघन्यतस्त्वेक समय इति । देशविरतेरुत्कृष्टः प्रतिपत्तिविरहकाल अहोरात्रद्वादशकम् , जघन्यतस्तु त्रयः समया इति । सर्वविरतेरहोरात्रपञ्चदशकम् , जघन्यतस्तु समयत्रयमेवेति गाथार्थः ॥९॥ साम्प्रतं भवद्वारमाह-कियतो भवानेकजीवः सामायिकचतुष्टयं प्रतिपद्यते? इति दर्शयन्नाह १. वि.भा./२७७५ । २. वि.भा./२७७७ । ३. वि.भा./२७७८ । D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy