SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे मध्यभागे एकादशस्तरङ्गः] [२०३ इमाओ चत्तारि महाविज्जाओ तंजहा-गोरी १ गंधारी २ रोहिणी ३ पण्णत्ती"। आवश्यकचूर्णावपि-"अडयालीसं विज्जासहस्साइं देमि" । अष्टचत्वारिंशद्विद्यासहस्राणि तयोरदात् । उपदेशमालाकर्णिकायामपि "प्रज्ञप्तिमुख्याः प्रीतेन, फणीन्द्रेण तयोर्ददे । पाठसंसिद्धविद्याष्टचत्वारिंशत्सहस्त्र्यथ" ॥१॥ उपदेशसित्तरीवृत्तौ तु त्रयोदशोपदेशे "अवादीद्धरणो नाहं, पथिकः किं तु नागराट् । राज्यादिदाता याचेथां, तावां यद्विलोक्यते ॥२०॥ त्रैलोक्यं यच्छसि त्वं चेन्न कार्यं तदपि त्वया। यदि दास्यति तद्दाता, स्वाम्येव खलु नापरः ॥२१॥ भक्तिस्थैर्यामिति ज्ञात्वाऽवातरत् स्वामिनो मुखे। तुष्टो भवद्भ्यामेषोऽहं, साम्राज्यं गृह्यतामिदम् ॥२२॥ इति प्रोच्य स वैताढ्याधिपत्यं प्रददे तयोः।। अष्टनषट्सहस्राणि, प्रौढविद्याश्च विश्रुताः" ॥२३॥ वृद्धशत्रुञ्जयमाहात्म्यतृतीयसर्गे तु "सेवावहे न भरतं, प्रतिज्ञायेति तौ ततः । असेवितां विभुं पार्श्वद्वये कृष्टासिधारिणौ ॥५८०॥ पातालविभुरन्येधुर्धरणेन्द्रः परीक्षणात् । अत्यन्तं तातपादेषु, तावज्ञासीत् सुभक्तिकौ ॥५८१॥ विद्याः षोडशसहस्त्राण्यदाद्वैताढ्यपर्वते। दक्षिणोत्तरश्रेण्याश्च, राज्यं ताभ्यां मुदा सह" ॥५८२॥ अत्र केचिद्विद्यानामष्टत्वारिंशत्सहस्राणि, केचित् षोडश सहस्राणि, केचिद्धरणेन्द्रेण स्वयं विद्याः प्रदत्ताः, केचिच्च भगवन्मुखेऽवतीर्येति मतद्वयमवसेयम् ॥२३॥ २४॥ हरिभद्रसूरिकृतदशवकालिकवृत्तौ हैमचरित्रे नवपदप्रकरणवृत्तौ च चक्रिण: सप्तम्यामेव गच्छन्तीत्युक्तम् । भगवतीद्वादशशतकनवमोद्देशकाभिप्रायेण तु सप्तस्वपि नरकेषु गच्छन्तीति ।।२५।। D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy