SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे मध्यभागे ॥ एकादशस्तरङ्गः॥ कल्याणवल्लीजलदच्छटायै, प्रध्वस्तनिःशेषतमोघटायै । सुरासुरश्रेणिनिषेवितायै, नमोऽस्तु नित्यं श्रुतदेवतायै ॥१॥ अथानेकशास्त्रान्तर्वर्तीनि मतान्तराणि लिख्यन्ते "मल्लिस्स णं अरहओ सत्तावन्नं मणपज्जवनाणीसते होत्था" । इति समवायाङ्गे । ज्ञाताधर्मकथाङ्गे तु-"अट्ठसया मणनाणीणं" ॥१॥ "सोलसदेवीसहस्सा वरनयणहिययदइया" इति प्रश्नव्याकरणे ४ आश्रवे । कृष्णस्य षोडश सहस्राः स्त्रीणाम् । ज्ञाताधर्मे तु–“रुप्पिणीपामोक्खाणं बत्तीसाए महिलासाहस्सीणं" ॥२॥ तथा श्रीजम्बूद्वीपप्रज्ञप्तिचतुर्दशे पत्रे-"पंचदस कुलगरा पण्णत्ता-सुमती १ पडिसुमती २ सीमंकरे ३ सीमंधरे ४ खेमंकरे ५ खेमंधरे ६ विमलवाहणे ७ चक्खुमं ८ जसमं ९ अभिचंदे १० चंदाभे ११ पसेणई १२ मरुदेवे १३ नाभी १४ उसभे १५" इति । स्थानाङ्गे च सावचूरिकपत्तौ १८१ पत्रे-समवायाङ्गसूत्रे च ४६ पत्रे "पढमित्थविमलवाहण १, चक्खुम २ जसमं ३ चउत्थमभिचंदे ४ । तत्तो पसेणईए ५, मरुदेवे चेव नाभी य" ॥१॥ इति सप्तैवेति ॥३॥ तथा "विजयवेजयंतजयंतअपराजियाणं भंते ! देवाणं केवइयं कालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं बत्तीसं सागरोवमाइं, उक्कोसेणं तेत्तीसं सागरोवमाइं"। इति समवायाले ३२ समवाये । प्रज्ञापनायां तु चतुर्थे पदे ७५ पत्रे"विजयवेजयंतजयंतअपराजिएसु णं भंते ! देवाणं केवइयं कालं ठिती पण्णत्ता? गोयमा ! जहन्नेणं एक्कतीसं सागरोवमाइं उक्कोसेणं तेत्तीसं सागरोवमाइं" इति ॥४॥
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy