SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे मध्यभागे ॥ दशमस्तरङ्गः ॥ यदि भूरिभवाभोगभ्रान्तिश्रान्तं भवन्मनः । भगवद्भारतीभक्तिभाजो भवत तद्धृशम् ॥१॥ अथ श्रीअनुयोगद्वारसूत्रवृत्तिविचारा लिख्यन्ते तत्र च स्थापनाऽक्षराणि लिख्यन्ते से किं तं ठवणावस्सयं ? ठवणावस्सयं जन्नं कठुकम्मे वा १ चित्तकम्मे वा २ पोत्थकम्मे वा ३ लेप्पकम्मे वा ४ गंथिमे वा ५ वेढिमे वा ६ पूरिमे वा ७ संघाइमे वा ८ अक्खे वा ९ वराडए वा १० एगो वा अणेगो वा सब्भावट्ठवणाए वा असब्भावट्ठवणाए वा आवस्सए त्ति ट्ठवणा ठविज्जइ से तं ठवणावस्सयं । नामट्टवणाणं को पइविसेसो ? नामं आवकहिअं, ठवणा इत्तरिआ वा होज्जा आवकहिआ वा ॥ इति । वृत्तिर्यथा-इदानीं स्थापनावश्यकनिरूपणार्थमाह-'से किं तं' इत्यादि । अथ किं तत्स्थापनावश्यकं ? इति प्रश्ने सत्याह-'ठवणावस्सयं जण्णं' इत्यादि, तत्र स्थाप्यते-अमुकोऽयमभिप्रायेण क्रियते निर्वर्त्यत इति स्थापना-काष्ठकर्मादिगतावश्यकवत् साध्वादिरूपा सा चासौ आवश्यकतद्वतोरभेदोपचारादावश्यकं च स्थापनावश्यकं, स्थापनालक्षणं च सामान्यत इदम्-"यत्तु तदर्थवियुक्तं, तदभिप्रायेण यच्च तत्करणि, लेप्यादिकर्म तत्स्थापनेति क्रियतेऽल्पकालं च" ॥१॥[ ] इति । विनेयानुग्रहार्थमत्रापि व्याख्या-तुशब्दो नामलक्षणात् स्थापनालक्षणस्य भेदसूचक: स चासावर्थश्च तदर्थो भावेन्द्रभावावश्यकादिलक्षणः तेन वियुक्तं-रहितं यद्वस्तु तदभिप्रायेण क्रियतेस्थाप्यते तत्स्थापनेति सम्बन्धः । किंविशिष्टं यदित्याह-यच्च तत्करणि तेन भावेन्द्रादिना सह करणिः-सादृश्यं यस्य तत्तत्करणि-तत्सदृशमित्यर्थः, चशब्दात्तदकरणि चाक्षादिवस्तु गृह्यते, अतत्सदृशमित्यर्थः, किं पुनस्तदेवम्भूतं वस्तु इत्याह-लेप्यादिकर्मेति-लेप्यादिपुत्तलिकादीत्यर्थः, आदिशब्दात् काष्ठपुत्तलिकादि वस्तु गृह्यते, अक्षादि वानाकारं, कियन्तं १. अनु./११-१२ सू.। D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy