SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ [श्रीविचाररत्नाकरः तद्गमनयोग्यतथाविधसर्वोत्कृष्टमनोवीर्यपरिणत्यभावः, ततः सप्तमपृथ्वीगमननिषेधादवसीयते नास्ति स्त्रीणां निर्वाणं निर्वाणहेतोस्तथारूपसर्वोत्कृष्टमनोवीर्यपरिणत्यसम्भवात् , तथा चात्र प्रयोगः-असम्भवनिर्वाणं स्त्रियः सप्तमपृथ्वीगमनत्वाभावात् सम्मूच्छिमादिवत्तदेतदयुक्तम् , यतो यदि नाम स्त्रीणां सप्तमनरकपृथ्वीगमनं प्रति सर्वोत्कृष्टमनोवीर्यपरिणत्यभावः तत एतावता कथमवसीयते निःश्रेयसं प्रत्यपि तासां सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो ? न हि यो भूमिकर्षणादिकं कर्म कर्तुं न शक्नोति स शास्त्राण्यवगाढुं न शक्नोतीति प्रत्येतुं शक्यं प्रत्यक्षविरोधात् , अथ सम्मूच्छिमादिषूभयं प्रत्यपि सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो दृष्टः ततोऽप्यवसीयते, ननु यदि तत्र दृष्टस्तर्हि कथमत्रावसीयते ? न खलु बहिर्व्याप्तिमात्रेण हेतुर्गमको भवति किं त्वन्तर्व्याप्त्या, अन्तर्व्याप्तिश्च प्रतिबन्धबलेन सिध्यति, न चात्र प्रतिबन्धो विद्यते, न खलु सप्तमपृथ्वीगमनं निर्वाणगमनस्य कारणम् , नाप्येवमेवाविनाभावप्रतिबन्धेन सप्तमपृथ्वीगमनाविनाभाविनिर्वाणगमनम् , सप्तमपृथ्वीगमनमन्तरेणैव चरमशरीरिणां निर्वाणगमनभावात् , न च प्रतिबन्धमन्तरेणैकस्याभावेऽन्यस्याभावः, मा प्रापद्यस्य कस्यचिदेकस्याभावे सर्वस्याभावप्रसङ्गः, यद्येवं तहि कथं सम्मूच्छिमादिषु निर्वाणगमनाभावः? इति उच्यतेतथाभवस्वाभावात् , तथा हि-ते सम्मूच्छिमादयो भवस्वभावत एव सम्यग्दर्शनादिकं तथावत् प्रतिपत्तुं न शक्नुवन्ति ततो न तेषां निर्वाणसम्भवः, स्त्रियस्तु प्रागुक्तप्रकारेण यथावत् सम्यग्दर्शनादिरत्नत्रयसम्पद्योग्याः ततस्तासां न निर्वाणाभावः, अपि च भुजपरिसर्पा द्वितीयामेव पृथिवीं यावद् गच्छन्ति न परतः, परपृथ्वीगमनहेतुतथारूपमनोवीर्यपरिणत्यभावात् , तृतीयां यावत् पक्षिणः, चतुर्थी चतुष्पदाः, पञ्चमीमुरगाः, अथ च सर्वेऽप्यूर्ध्वमुत्कर्षतः सहस्रारं यावद् च्छन्ति, तन्नाधोगतिविषयमनोवीर्यपरिणतेवैषम्यदर्शनादूर्ध्वगतावपि तद्वैषम्यम् , तथा च सति सिद्धं स्त्रीपुंसामधोगतिवैषम्येऽपि निर्वाणं सममिति कृतं प्रसङ्गेन । तथा पुल्लिङ्गे शरीरनिवृत्तिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते पुल्लिङ्गसिद्धाः ९, एवं नपुंसकलिङ्गसिद्धाः १०, तथा स्वलिङ्गे रजोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते स्वलिङ्गसिद्धाः ११, तथा अन्यलिङ्गे परिव्राजकादिसम्बन्धिनि वल्कलकषायादिवस्त्रादिरूपे द्रव्यलिङ्गे व्यवस्थिताः सन्तो ये सिद्धास्तेऽन्यलिङ्गसिद्धाः १२, गृहिलिङ्गे सिद्धा गृहिलिङ्गसिद्धा मरुदेवीप्रभृतयः १३, तथा एकस्मिन्नेकस्मिन् समये एकैक: सन्तो ये सिद्धास्ते एकसिद्धाः १४, अनेकसिद्धा D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy