SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १०] [ श्रीविचाररत्नाकरः महामहिमाओ करेमाणा पालेमाणे सुहंसुहेणं विहरन्ति ॥ इति वृत्तिर्यथा - ' तत्थ णं' इत्यादि, तत्र तेषु सिद्धायतनेषु 'णं' इति पूर्ववत्, बहवो भवनपतिव्यन्तरज्योतिष्कवैमानिका देवाश्चातुर्मासिकेषु पर्युषणायामन्येषु च बहुषु जिनजन्मनिष्क्रमणज्ञानोत्पादपरिनिर्वाणादिषु देवकार्येषु देवसमितिषु, एतदेव पर्यायद्वयेन व्याचष्टे - देवसमवायेषु - देवसमुदायेषु आगताः प्रमुदितप्रकीडिता अष्टाह्निकारूपा महामहिमाः कुर्वन्तः सुखंसुखेन विहरन्ति – आसते । इति श्रीजीवाभिगमतृतीयप्रतिपत्तिद्वीपोद्देशके २६४ प्रतौ २०७ पत्रे ॥७॥ अत्र मनुष्यलोके मनुष्याणां यथा गृहाद्बहिर्गमनाय समीचीनः सालङ्कारो वेषो भवति गृहे तु सामान्य एव, तथा देवानामपि यानि केनचित् प्रयोजनेन विकुर्वितानि शरीराणि तानि सालङ्काराणि साभरणानि यानि तु भवधारणीयानि [तानि ] तु विभूषया प्रकृतिस्थानानीत्यभिप्रायो लिख्यते सोहम्मीसाणा देवा केरिसया विभूसाए पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा - 'वेडव्वियसरीरा य अवेडव्वियसरीरा य, तत्थ णं जे ते वेडव्वियसरीरा ते हारविराइयवच्छा जाव दसदिसाओ उज्जोवेमाणा पभासेमाणा जाव पडिरूवा, तत्थ णं जे ते अवेडव्वियसरीरा ते आभरणवसणरहिया पगतित्था विभूसाए पण्णत्ता ॥ इति वृत्तिर्यथा-‘सोहम्मीसाणा' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि कीदृशानि विभूषयता प्रज्ञप्तानि ? भगवानाह - गौतम ! द्विविधानि शरीरकाणि प्रज्ञप्तानि, तद्यथा—भवधारणीयानि उत्तरवैक्रियाणि च तत्र यानि तानि भवधारणीयानि शरीराणि तानि आभरणवसनरहितानि प्रकृतिस्थानि विभूषया प्रज्ञप्तानि स्वाभाविक्येव तेषां विभूषा नौपाधिकीति भावः । तत्र यानि तानि उत्तरवैक्रियाणि शरीराणि तानि 'हारविराइयवच्छा' इत्यादि, पूर्वोक्तं तावद्वक्तव्यं यावत् 'दसदिसाओ उज्जोवेमाणा पभासेमाणा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा विभूसाए पण्णत्ता' अस्य व्याख्या प्राग्वत् । इति श्रीजीवाभिगमतृतीयप्रतिपत्तौ वैमानिकोद्देशके ॥७॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्त्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे श्रीजीवाभिगमविचारनामा तृतीयस्तरङ्गः ॥३॥ १. जीवा. / ३प्र. / वै. - उ.२ / ३३८सू. मध्ये । D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy