SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे प्राच्यतटे चतुर्थस्तरङ्गः] [६७ तथोपासकदशासु आख्यायते इति प्रक्रमः इति समवायाङ्गेस्छ ख्याक्रमसमाप्त्यनन्तरं ९५ प्रतौ ७० पत्रे ॥२॥ आधुनिकाः पण्डिमन्याः केचन इच्चेइयं दुवालसंगं'इत्यादिसूत्रं दर्शयन्तो जमालेसन्तभवत्वं निश्चिन्वते, अनेन च तेषामेतत्सूत्रतात्पर्यानवबोधो निश्चियते, तथा हि यद्यप्यत्र टीकायां चातुरन्तसंसारकान्तारभ्रमणेजमालिष्टान्तीकृतोऽस्ति तथाऽपि एकदेशेनैवाऽयं दृष्टान्तो, न हि दृष्टान्तदाान्तिकयोः सर्वात्मना तुल्यत्वं',मुखमाह्लादकारिचन्द्रवदित्यादिवत्तेन च संसारभ्रमणे एवजमालिष्टान्तो न तु चातुरन्तसंसारकान्तारे, संसारभ्र मणं चजमाले:पञ्चदशभिर्भवैः संपन्नमेव, यदि च दृष्टान्तस्यैकदेशत्वानङ्गीकारेण सर्वात्मनाजमालिष्टान्तस्तर्हिभगवत्यासह विरोधः संपनीपद्यते । यथा अत्र चातुरन्तसंसारकान्तारभ्रमणमुक्तं तत्र तुजमाले: “चत्तारिपंच देवमणुयतिरिक्खजोणियभवगहणाई'[ ]इत्यादिना गतित्रय एव पञ्चदशानामेव भवानामुक्तत्वादित्यलं व्यासेन । अनेन सूत्रेण नैवानन्तभवत्वं निर्णेतुं शक्यमिति । सूत्रं च यथा- 'इच्चेइयं दुवालसंगं गणिपिडगं अतीते काले अणंता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियट्टिसु । इच्चेइयं दुवालसंगं गणिपिडगं पडुप्पन्ने काले परित्ता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियद॒ति । इच्चेइयं दुवालसंगं गणिपिडगं अणागए काले अणंता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियट्टिस्संति । इच्चेइयं दुवालसंगं गणिपिडगं अतीते काले अणंता जीवा आणाए आराहित्ता चाउरंतसंसारं वितिवइंसु । एवं पडुप्पन्ने वि अणागए वि'। त्ति, वृत्तिर्यथा-साम्प्रतं द्वादशाङ्गविराधनानिष्पन्नं त्रैकालिकं फलमुपदर्शयन्नाह–'इच्चेइयमि'त्यादि इत्येतद् द्वादशाङ्गं गणिपिटकमतीते काले अनन्ता जीवा आज्ञया विराध्य चतुरंतसंसारकान्तारं 'अणुपरियट्टिसु'त्ति अनुपरिवृतवन्तः । इदं हि द्वादशाङ्गं सूत्रार्थोभयभेदेन त्रिविधम्, ततश्चाज्ञयासूत्राज्ञयाअभिनिवेशतोऽन्यथा पाठादिलक्षणया अतीते काले अनन्ता जीवाश्चतुरन्तं संसारकान्तारं-नरकतिर्यग्नरामरविविधवृक्षजालदुस्तरं भवाटवीगहनमित्यर्थः, अनुपावृत्तवन्तोजमाल्लिात् ।अर्थाज्ञयापुनरभिनिवेशतोऽन्यथा प्ररूपणादिलक्षणयागोष्ठामाहिलदिवत् ।उभयाज्ञयापुनः पञ्चविधाचारपरिज्ञानकरणोद्यतगुर्वादेशारन्यथाकरणलक्षणयागुरुप्रत्यनीकद्रव्यलिङ्गधार्यनेकश्रमणात् १. सम. २२३ सू.। D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy