SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ६०] [श्रीविचाररत्नाकरः जन्मान्तरे सुखितो भवत्विति वासनातोऽन्यस्य वा यद्दानं तत्कारुण्यदानं,कारुण्यजन्यत्वाद्वा दानमपिकारुण्यममुपचारादिति ।। लज्जया-हिया दानं यतलज्जादानमुयते। उक्तं च__ "अभ्यर्थितः परेण तु, यद्दानं जनसमूहमध्यगतः। परचित्तरक्षणार्थं, लज्जायास्तद्भवेद्दानम्" ॥१॥[ ]इति ५। 'गारवेणं च' त्ति गौरवेण-गर्वेण यद्दीयते तद् गौरवदानमिति । उक्तं च "नटनर्त्तमुष्टिकेभ्यो, दानं संबन्धिबन्धुमित्रेभ्यः। यद्दीयते यशोऽर्थं , गर्वेण तु तद्भवेद्दानम्" ॥१॥[ ]इति ६। अधर्मपोषकं दानमधर्मदानम्, अधर्मकारणत्वाद्वाऽधर्म एवेति । उक्तं च "हिंसानृतचौर्योद्यतपरदारपरिग्रहप्रसक्तेभ्यः। यद्दीयते हि दानं, तज्जानीयादधर्माय" ॥१॥[ ]इति ७। धर्मकारणं यत्तद्धर्मदानं धर्मे एव वा । उक्तं च "सममणितृणमुक्तेभ्यो, यद्दानं दीयते सुपात्रेभ्यः । अक्षयमतुलमनन्तं , तद्दानं भवति धर्माय ॥१॥[ ]इति ८। 'काहीइय'त्तिकरिष्यतिकञ्चनोपकारंममायमितिबुद्ध्यायद्दानंतकरिष्यतिदान्मुच्यते ९, तथाकृतंममानेनैतत्प्रयोजनमितिप्रत्युपकारार्थंयद्दानंतकृतमितिदानमध्यते।उक्तंच "शतशः कृतोपकारो, दत्तं च सहस्रशो ममानेन। अहमपि ददामि किञ्चित् प्रत्युपकाराय तद्दानम्" ॥१॥[ ]इति १०। इति श्रीस्थानाङ्गदशमस्थानके ४४० प्रतौ ४११ पत्रे ॥१९॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशील श्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे प्राच्यतटे विशेषसमुच्चयापरनाम्नि श्रीस्थानाङ्गकियद्विचारसमुच्चयनामा तृतीयस्तरङ्गः ॥३॥ D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy