________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAA
ततः कृताभिषेके ते देव्यौ दिव्याविवापरे । राज्ञोऽतिमान्ये जज्ञाते तुल्यमेव दृशाविव ॥२५५॥ किञ्चित्तथापि सापन्त्यात्ताभ्यां मेनेऽधिकोनता । एकद्रव्याभिलाषो हि प्रेमाऽस्थेमानमानयेत् ॥२५६॥ हंसी च सरला नित्यं प्रकृत्या सारसी पुनः । किञ्चिन्मायाविनी मायां निर्माति स्माऽन्तरान्तरा ॥२५७॥ राजानं रञ्जयन्त्येवं दृढं स्त्रीकर्म निर्ममे । हंसी तु शिथिलीचक्रे राज्ञो मान्यैव चाजनि ॥२५८॥ अहो महीयसी मूढात्मता काऽपीह देहिनाम् । यन्मायया मुधाऽऽत्मानमधः कुर्वन्त्यमुत्र ते ॥२५९॥ नृपोऽन्यदाऽन्वितस्ताभ्यां वीक्षते स्म गवाक्षगः । नृसङ्घमनघं मार्गे सञ्चरन्तं पुरादहिः ॥२६०॥ अप्राक्षीच्च नरं ज्ञात्वा सोऽप्याख्यत् देव ! यात्ययम् । विमलाद्रिमहातीर्थं सङ्घः शङ्खपुरागतः ॥२६१॥ ततः कौतुकतः सङ्घमध्ये भूप उपेयिवान् । श्रुतसागरसूरीश्च तत्र दृष्ट्वाऽभ्यवन्दत ॥२६२॥ तान् पृष्टवांश्च शिष्टात्मा विमलाद्रिरिहास्ति कः ? । कं हेतुं तीर्थता तस्य माहात्म्यं किं नु तस्य च ॥२६३॥ क्षीराश्रवमहालब्धिपात्रं तेऽप्यादिशन्निदम् । धर्मादेवेष्टसिद्धिः स्याद्विश्वे सारः स एव तत् ॥२६४॥ धर्मेष्वप्याहतो धर्मस्तस्मिन्नपि सुदर्शनम् । यद्विना व्रतकष्टाद्यम वकेशितरूयते ॥२६५॥
१. प्रेमास्थिरत्वम् । २. वन्ध्यवृक्षायते ।