________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
शशी सलक्ष्मा तीक्ष्णोऽर्कः खं शून्यमनिलश्चलः । दृषद्देवमणिर्देवतरुर्दारु धरा रजः ॥२०॥ क्षारोऽब्धिरब्द: कृष्णास्योऽग्निही निम्नगं पयः । मेरुः कठोर: कर्पूरोऽस्थिर: कस्तूरिकाऽशितिः ॥२०१॥ निर्धन: सज्जनः श्रीमान्मूर्खः मापश्च लोलुपः । ईदृक् पुत्रोऽपि मूकश्च रत्नदूषी हहा ! विधिः ॥२०२॥ शुशोचेत्युच्चकैस्तत्र लोकोऽस्तोकोऽपि सर्वतः । विरूपं महतां कस्य न हि खाट्कुरुते हृदि ॥२०३॥ चतुभि:कलापकम् अथाऽगाज्जनता नेत्रकौमुदीकौमुदीमहः । यस्मिन्नुज्जागरः पुंसां स्यात्क्रीडारससागरः ॥२०४॥ तदा पुनस्तदुद्यानं प्राप्तः पुत्रप्रियायुतः । क्षमापस्तमानं प्रेक्ष्याऽऽख्यत् खिन्नात्मा प्रेयसी प्रति ॥२०५॥ देवि ! दूरतरं त्याज्यस्तरुरेष विषद्रुवत् । अत्र स्वपुत्ररत्नस्य जज्ञे 'वैशसमीदृशम् ॥२०६॥ इत्युक्त्वा पुरतो यावद्याति तावत्प्रमोदकृत् । तले चूतस्य तस्यैव दिव्योऽभूद् दुन्दुभिध्वनिः ॥२०७॥ पृष्टश्च कश्चिदाचष्ट श्रीदत्तस्याधुना मुनेः । केवलज्ञानमुत्पेदे तन्महं तन्वतेऽमराः ॥२०८॥ सुतस्वरूपं पृच्छामीत्युत्सुकः सपरिच्छदः । तत्र गत्वा मुनि नत्वा ससूनुः स निविष्टवान् ॥२०९॥ तेनादेशि सुधादे श्या देशना क्लेशनाशिनी । पार्थिवोऽथाऽब्रवीनाथाऽस्थात्कुतोऽस्याऽङ्गजस्य गीः ॥२१०॥
१. बाधकः । २. कल्पा ।