SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ षष्ठः श्राद्धविधिप्रकरणम् प्रकाश: ते धन्ना कयपुन्ना, जणओ जणणी अ सयणवग्गो अ । जेसिं कुलम्मि जायइ, चारित्तधरो महापुत्तो ॥ लोकेऽपि तावद् भ्रमन्ति संसारे, पितरः पिण्डकाक्षिणः । यावत्कुले विशुद्धात्मा, यतिः पुत्रो न जायते ॥ द्वारम् ८ तथा पदस्थापना गणिवाचनाचार्यवाचकाचार्यादिपदप्रतिष्ठापनं दीक्षितस्वपुत्रादीनामन्येषां वा पदार्हाणां शासनौन्नत्यादि| निमित्तप्रौढोत्सवैविधाप्या । श्रूयते हि-प्रथमेऽर्हतः समवसरणे शक्रेण गणधरपदस्थापनाकारणं मन्त्रिवस्तुपालेनाप्येकविंशतिसूरीणां | पदस्थापना कारिता । द्वारम् ९। तथा पुस्तकानां श्रीकल्पाद्यागमजिनचरित्रादिसत्कानां न्यायार्जितवित्तेन विशिष्टपत्रविशिष्टविशुद्धाक्षरादियुक्त्या लेखनं तथा | वाचनं, संविग्नगीतार्थेभ्यः प्रोढप्रारम्भाद्युत्सवैः प्रत्यहं पूजादिबहुमानपूर्वकं व्याख्यापनं अनेकभव्यप्रतिबोधहेतुविधेयम् । उपलक्षणत्वात्तद्वाचनभणनादिकृतां वस्त्रादिभिरुपष्टम्भप्रदानं च । यतः ये लेखयन्ति जिनशासनपुस्तकानि, व्याख्यानयन्ति च पठन्ति च पाठयन्ति । शृण्वन्ति रक्षणविधौ च समाद्रियन्ते, ते मर्त्यदेवशिवशर्म नरा लभन्ते ॥ पठति पाठयते पठताममुं, वसनभोजनपुस्तकवस्तुभिः । प्रतिदिनं कुरुते य उपग्रहं, स इह सर्वविदेव भवेन्नरः ॥ जिनागमस्य च केवलज्ञानादप्यतिशायिता दृश्यते । यदाहुः ४८५
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy