________________
श्राद्धविधि
षष्ठः
प्रकरणम्
प्रकाश:
विद्वत्प्रायो यत्र लोको निसर्गाच्छीलं यस्मिन् जीवितादप्यभीष्टम् ।
नित्यं यस्मिन् धर्मशीला: प्रजाः स्युस्तिष्ठत्तस्मिन् साधुसङ्गो हि भूत्यै ॥ जत्थ पुरे जिणभवणं, समयविऊ साहुसावया जत्थ । तत्थ सया वसिअव्वं, पउरजलं इंधणं जत्थ ॥
त्रिशतीजैनप्रासादसुश्राद्धाद्यलङ्कृते सुशीलविज्ञलोकेऽजयमेर्वासन्ने हर्षपुरे सुस्थाने वसन्तोऽष्टादशसहस्रविप्रास्तद्भक्ताः | षट्त्रिंशन्महेभ्याश्च श्रीप्रियग्रन्थसूरीन्द्रागमे प्रबुद्धाः । सुस्थानवासे हि धनवतां गुणवतां धर्मवतां च सङ्गत्या धनित्वं विवेकविनयविचाराचारौदार्यगाम्भीर्यधैर्यप्रतिष्ठादयो गुणाः सर्वाङ्गीणधर्मकृत्यकौशलं च प्रायः सुप्रापाणि संप्रत्यपि प्रतीयन्ते । अतः प्रान्तग्रामादौ धनार्जनादिना सुखनिर्वाहेऽपि न वसनीयम् । उक्तं च
जत्थ न दीसंति जिणा, न य भवणं नेव संघमुहकमलं । न य सुच्चइ जिणवयणं, किं ताए अत्थभूईए ॥ यदि वाञ्छसि मूर्खत्वं, ग्रामे वस दिनत्रयम् । अपूर्वस्यागमो नास्ति, पूर्वाधीतं च नश्यति ॥
श्रूयते च कश्चिन्नगरनिवासी स्वल्पवणिग्ग्रामे धनलाभार्थमुषितः । कृषिविविधवाणिज्यव्यापारादिना यावता धनमुपार्जयेत्तावद् गृहं तार्णं जज्वाल । एवं पुनः पुनः धनार्जनेऽपि स्तैन्यमारीदुर्भिक्षनृपदण्डाद्यजनि । अन्यदा तद्ग्राम्यैः स्तेनैः क्वचित्पुरे धाटीप्रदाने तत्पुरनृपेण ग्रामो हतः । श्रेष्ठी पुत्रादिधृतौ युध्यमानस्तद्भटैारितश्चेति कुग्रामावासे दृष्टान्तः । उचितमपि च वासस्थानं |
४६१