SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ पञ्चमः श्राद्धविधिप्रकरणम् प्रकाशः जह सुकुसलो वि विज्जो, अन्नस्स कहेइ अप्पणो वाहिं । एवं जाणंतस्स वि, सल्लुद्धरणं परसगासे ॥ तथाज्ञा तीर्थकृतामाराधिता स्यात् । निःशल्यत्वं स्पष्टम् । उक्तं चैकोनत्रिंशदुत्तराध्ययने-आलोअणयाएणं भंते ! जीवे किं जणयइ ? गोयमा ! आलोअणयाएणं मायानिआणमिच्छादंसणसल्लाणं अणंतसंसारवद्धणाणं उद्धरणं करेइ, उज्जुभावं च णं जणयइ । उज्जुभावं पडिवन्ने अ णं जीवे अमाई इत्थीवेअं नपुंसगवेअं च न बंधइ, पुव्वबद्धं च णं निज्जरेइ त्ति । एते शोधेरालोचनाया गुणाः ॥११॥ ___ इति श्राद्धजितकल्पात्तवृत्तेश्च किञ्चिदुद्धृत आलोचनाविधिः । तीव्रतराध्यवसायकृतं बृहत्तरमपि निकाचितमपि बालस्त्रीयतिहत्यादेवादिद्रव्यभक्षणराजपत्नीगमनादिकं महापापं सम्यग् विधिवदालोच्य गुरुदत्तं प्रायश्चित्तं विधत्ते, तदा तद्भवेऽपि शुध्यति । कथमन्यथा दृढप्रहारिप्रभृतीनां तद्भवेऽपि सिद्धिरित्यालोचना प्रतिवर्ष प्रतिचातुर्मासकं वा ग्राह्मैव । इति वर्षकृत्यगाथोत्तरार्धार्थः ॥ ॥ इति श्रीतपागच्छाधिपश्रीसोमसुन्दरसूरि-श्रीमुनिसुन्दरसूरि-श्रीजयचन्द्रसूरिश्रीभुवनसुन्दरसूरिशिष्य-श्रीरत्नशेखरसूरिविरचितायां श्रीश्राद्धविधिप्रकरणवृत्ती वर्षकृत्यप्रकाशकः पञ्चमः प्रकाशः ।। ४५९
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy