SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ श्राद्धविधि पञ्चमः प्रकाशः लपनेप्सितामोदकादि'लम्भनसाधर्मिकवात्सल्ययथोचितदानादिविधिम् । प्रौढप्रवेशोत्सवेन तीर्थप्राप्तश्च सर्वशक्त्या स्वयं कुरुते, परैश्च कारयते प्रथमहर्षपूजाढौकनादिप्रतिपत्तिमष्टोपचारादिविधिपूजां, विधिस्नात्रं, मालोद्घट्टनं, घृतधाराप्रदानं, परिधापनिकामोचनम्, नवाङ्गजिनपूजनं, पुष्पगृहकदलीगृहादिमहापूजां, दुकूलादिमयमहाध्वजप्रदानमवारितदानं, रात्रिजागरणं, नानागीतनृत्त्याद्युत्सवं, तीर्थोपवासषष्ठादितपः कोटिलक्षाक्षतादिविविधोद्यापनढौकनं, नानावस्तुफलशताष्टोत्तरिका-चतुर्विंशिकाद्वापञ्चाशिका-द्वासप्ततिकादिढौकनं, सर्वभक्ष्यभोज्यभृतस्थालढौकनं, दुकूलादिमयविचित्रचन्द्रोदयपरिधापनिकाङ्गरूक्षणदीपतैलधौतिकचन्दन-केसरभोग-चङ्गेरी-पिङ्गानिका-कलश-धूपधानकारात्रिकाभरण-प्रदीप-चामर-भृङ्गार-स्थाल-कच्चोलकघण्टाझल्लरी-पटहादि-विचित्रवाद्यादिप्रदानं, देव-कुलिकादिकारणं, सूत्रधारादिसत्कारं, तीर्थसेवां, विनश्यत्तीर्थाङ्गसमारचनं, तीर्थरक्षकबहुसन्माननं, तीर्थदायप्रवर्त्तनं, सार्मिकवात्सल्यं, गुरुसङ्घपरिधापनादिभक्ति, जैनमार्गणदीनाधुचितदानं चेत्यादिधर्मकृत्यानि । न च मार्गणादीनां दानं कीर्तिमात्रहेतुत्वेन निष्फलं, तेषामपि देवगुरुसङ्घगुणोद्घोषितया दीयमानस्य दानस्य बहुफलत्वात् । जिनागमनवक्तुरपि चक्रयादिभिः सार्द्धद्वादशस्वर्णकोट्यादिदानात् । तदागम: वित्तीइ सुवन्नस्स य, बारस अद्धं च सयसहस्साइं । तावइ चिअ कोडी, पीईदाणं तु चक्किस्स ॥ १. स्तम्भन इति को० ह० प्र० पाठः । ४४७
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy