________________
चतुर्थः प्रकाशः उक्तं पर्वकृत्यमथ चतुर्मासीकृत्यं गाथाःनाह
पइचउमासं समुचिअ, नियमगहो पाउसे विसेसेण । येन परिग्रहपरिमाणं प्रतिपन्नं स्यात्तेन तन्नियमाः प्रतिचतुर्मासकं सक्षेप्याः । येन तु तन्न प्रतिपन्नं, तेनापि प्रतिचतुर्मासकं चतुर्मास्यां चतुर्मास्यां समुचिता योग्या ये नियमा अभिग्रहास्तेषां ग्रहः स्वीकारः कार्यः । प्रावृषि वर्षाचातुर्मास्यां पुनर्विशेषेण सविशेषं समुचितनियमा ग्राह्याः । तत्र ये नियमा यदा बहुफला यन्नियमाऽग्रहणे च बहुविराधनाधर्मापभ्राजनादिर्दोषास्ते तदा समुचिताः । यथा वर्षासु शकटखेटननिषेधादि । वार्दलाब्दवृष्ट्यादिना इलिकादिपाते राजादनाऽऽम्रत्यागादि च । देशपुरग्रामजातिकुलवयोऽवस्थाद्यपेक्षया वा समुचितत्वं नियमानां ज्ञेयम् । ते च द्विधा, दुर्निर्वाहा: सुनिर्वाहाश्च। तत्र धनिनां व्यापारिणां चाविरतानां सचित्तरसशाकत्यागसामायिकस्वीकाराद्या दुर्निर्वाहाः । पूजादानाद्याश्च | सुनिर्वाहाः। नि:स्वानां तु वैपरीत्यं । चित्तैकाग्रये च सर्वेषां सर्वे सुनिर्वाहा एव । चक्रिशालिभद्रादीनां दीक्षादिकष्टवत् ।
४२७