SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ श्राद्धविधि तृतीयः प्रकाश: प्रकरणम् महानेवारम्भः, ततोऽनारम्भेति पदेन पर्वसु सर्वसचित्ताहारपरिहारोऽपि कार्यतया ज्ञेयः । आहारनिमित्तेणं, मच्छा गच्छंति सत्तर्मि पुढवि । सच्चित्तो आहारो, न खमो मणसो वि पत्थेउं ॥ इति वचनान्नित्यं सचित्ताहारः श्राद्धेन परिहार्यो मुख्यवृत्त्या । जातु तथा कर्तुमशक्तोऽपि पर्वसु तं परिहरेत् । एवं पर्वसु | स्नान-शीर्षादिशोधन-ग्रथन-वस्त्रादिधावन-रञ्जन-शकटहलादिखेटन-मूढकादिबन्धन-यन्त्रादिवाहन-दलन-कण्डन-पेषण- | पत्रपुष्पफलादित्रोटन-सचित्तखटीवर्णिकादिमर्दन-धान्यादिलवन-लिम्पन-मृदादिखनन-गृहादिनिष्पादनाद्यारम्भः सर्वोऽपि यथाशक्ति परिहार्यः । निजकुटुम्बनिर्वाहस्याऽन्यथा कर्तुमशक्तौ पर्वस्वपि गृहिणः कियानारम्भः स्यात् । सचित्ताहारपरिहारस्तु स्वायत्तत्वादिना सुकरतया करणीय एव । गाढमान्द्यादिना सर्वसचित्तानि त्यक्तुमशक्तस्तु नामग्राहमेकादिसचित्तमुत्कलीकरणपूर्वं शेषनिःशेषसचित्तानि नियमयेत् । तथा आश्विनाष्टाह्निकाचैत्राष्टाह्निकाप्रमुखेषु पर्वसु विशेषेण पूर्वोक्तविधिविधेयः । प्रमुखशब्देन चतुर्मासकवार्षिकाद्यष्टाह्निका-चतुर्मासकत्रय-सांवत्सरपर्वादिसङ्ग्रहः । उक्तञ्च संवच्छरचाउम्मासिएसु, अट्ठाहिआसु अ तिहीसु । सव्वायरेण लग्गइ, जिणवरपूआतवगुणेसु ॥ अत्र गुणा ब्रह्मव्रतादयः अष्टाह्निकासु चैत्राश्विनाष्टाह्निके शाश्वत्यौ, तयोर्वैमानिकदेवा अपि नन्दीश्वरादिषु तीर्थयात्राद्युत्सवान् कुर्वन्ति । यदाहु: ४१४
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy