________________
प्रथमः
प्रकाशः
३५६
तत्त्ववृत्त्योपकारी मे न परः खेचरेन्द्रतः । अनन्तसुकृतप्राप्यं प्राप्ताङ्कं तव यद्भयात् ॥४३१॥ अस्मादृशोऽपि विवशा दुःखिताः सुखिताश्चिरम् । सन्तु हन्त ! प्रसादात्ते सधनस्येव निर्धनाः ||४३२ ॥ कुमारः स्माऽऽह काऽसि त्वं ? कथय प्रियवादिनी ! कथं त्वां खेचरोऽहार्षीदेवा भाषा च ते कथम् ? ॥४३३॥ हंसीवतंसीभूता सा हंसी प्राहाऽथ तद्यथा । उच्चैश्चैत्याढ्यवैताढ्यतुङ्गशृङ्गविभूषणम् ॥४३४॥ नगरं रथनूपुरचक्रवालं प्रपालयन् । खेचरेन्द्रोऽस्ति तरुणीमृगाङ्कस्तरुणीरतिः ॥ ४३५॥ युग्मम् । सोऽन्यदा कनकपुर्यां पुर्यां धुर्याङ्गविभ्रमाम् । अशोकमञ्जरीं राजकन्यां खे यानुदैक्षत ||४३६ ॥ लीलायमानां दोलायां बालामालोक्य तां च सः । साक्षादप्सरसमिवाक्षुभ्यद्विधुमिवाम्बुधिः ॥४३७॥ वात्यां विकृत्य तेनाऽथ बाला दोलायुता हृता । स्वेष्टसिद्धयै प्रवर्तन्ते यथाशक्त्याऽथवा न के ||४३८॥ हृत्वा शबरसेनाह्वमहाटव्याममोचि च । सा मृगीव भयत्रस्ती क्रन्दन्ती कुररीव च ॥४३९॥
स तामूचे स रंभोरु ! भीरु किं कम्पसे भिया ? । दिक्षु क्षिपसि किं नेत्रे ? किं वा क्रन्दसि ? सुन्दरि ! ॥४४० ॥
न बन्दकृन्न चौरश्च न चाऽहं पारदारिकः । किन्त्वस्मि खेचरेन्द्रस्तेऽनन्तभाग्यवशंवदः ॥ ४४१ ॥
प्रार्थये किङ्करीभूय कुरु पाणिग्रहं मम । खेचराणामशेषाणां कामिनि ! स्वामिनी भव ॥ ४४२ ॥ धिक्काममन्धा येनैवं दुष्टाऽनिष्टकचेष्टया । परोपतापिनोऽप्यग्निवदिच्छन्ति करग्रहम् ॥४४३॥
श्राद्धविधिप्रकरणम्