________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAAA
राजापि कीरराजस्य गमनाऽऽरेकया रयात् । हयाधिरूढ एवोच्चैः प्रणनाम जिनाधिपम् ॥४२॥ विज्ञो विज्ञाय तत्पक्षी हितैषी क्षितिपस्य सः । अन्तश्चैत्यमुपागत्य कृत्यवित्प्राणमत्प्रभुम् ॥४३॥ राजाप्युत्तीर्य वाजीन्द्रादंतःप्रासादमासदत् । अनुकीरमनुज्ञानं सन्मनोऽन्तर्विवेकवत् ॥४४॥ मणीमयीमप्रतिमा प्रतिमां तत्र 'चार्षभीम् । प्रणिपत्य नृपस्तुष्टस्तुष्टुवे सुष्टुवागिति ॥४५॥ एकस्माद्रणरणकः परस्माच्च न नैपुणम् । स्तोत्रे ते भक्त्यशक्तिभ्यां चेतो दोलायते मम ॥४६॥ तथापि त्वां यथाशक्ति नाथ ! स्तुतिपथं नये । मशकोऽपि किमु व्योम नोत्प्लवेत स्ववेगतः ॥४७॥ कथं तवाऽमितदातुर्मितदाः स्वर्द्वमादयः । उपमामुपयान्तीति नोपमेयोऽसि केनचित् ॥४८॥ न प्रसीदसि कस्यापि न ददासि च किञ्चन । तदप्याराध्यसे सर्वैरहो ते रीतिरद्भुता ॥४९॥ निर्ममोऽपि जगत्राता निःसंगोऽपि जगत्प्रभुः । लोकोत्तरस्वरूपाय नीरूपाय नमोऽस्तु ते ॥५०॥ (इति जिनेन्द्रस्तवः) अशृणोन्मसृणोद्गारां तामुदारां मुदा स्तुतिम् । महर्षिर्गाङ्गिलिः प्रत्यासन्नमाश्रममाश्रितः ॥५१॥
१. आदिदेवसत्कां । २. हत्खटत्कारः ।