________________
प्रथमः प्रकाशः
३४८
साशङ्कचेताः कीरोऽथ सचेताः द्राक् समागतः । यावदर्हद्गृहद्वारे तत्स्वरूपं न्यरूपयत् ॥३३१॥ तावद्विद्याधरेन्द्रस्याऽद्राक्षीत्सैन्यं सुदुर्द्धरम् । गङ्गापूरमिवातुच्छमागच्छद् गगनाङ्गणे ॥ ३३२ ॥ प्रभावादिव तीर्थस्याऽनुभावादिव दैवतात् । भाग्यसारकुमारस्याऽद्भुतभाग्योदयादिव ॥ ३३३॥ किं वा कुमारसंसर्गादिव वीरव्रतोद्धुरः । धीरगी: कीर इत्युच्चैर्हक्कयामास सैनिकान् ॥३३४॥ युग्मम् । रे रे विद्याधराः वीराः क्व नु धावत दुर्धियः । पुरः कुमारं देवैरप्यजय्यं किं न पश्यथ ? ॥ ३३५ ॥ इतः प्रोत्सर्पिदर्पाणां सर्पाणामिव सर्पताम् । क्षिप्रं दर्पापहर्त्ता वः स्वर्णकायः कुमारराट् ॥ ३३६ ॥ रे रेऽस्मिन् यमवत् क्रुद्धे युद्धं तिष्ठतु दूरतः । पलायनोऽपि युष्माकं दुर्लङ्घ्या भूर्भविष्यति ॥३३७॥ कीरहक्कामिति श्रुत्वा वीरहक्कामिवाशु ते । विषण्णा विस्मिता भीताश्चेतस्येवं व्यचिन्तयन् ॥३३८॥ कीररूपेण कोऽप्येष देवो वा दानवोऽथवा । नो चेदित्थं कथं हन्त हक्कयेत् खेचरानपि ॥३३९॥ विद्याभृतां सिंहनादानप्यहो ! सोढपूर्विणः । कथं नु सोढुमप्रौढा हक्कामप्यस्य हा ! वयम् ॥ ३४० ॥ यस्य कीरोऽपि वीरोऽयं क्षोभयेत् खेचरानपि । को वेद कीहगव्यास्ते कुमारः स पुरःस्थितः ॥ ३४९ ॥
AAAAA
श्राद्धविधि
प्रकरणम्