________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
भेकः किञ्चित्ततोऽन्धौ स्थित इति शपते हंसमभ्यर्णगं धिग्
दृप्यत्यल्पेऽपि तुच्छः समुचितमिति वा तावदेवास्य बोद्धः ॥२०॥ श्रुत्वेत्यचिन्तयद् भूपः कूपमण्डूककल्पता । कल्पिताऽनेन मे नूनमन्योक्ति जल्पता सता ॥२१॥ तदयं शुककोटीरश्चित्रं ज्ञानी मुनीशवत् । इति ध्यायति धात्रीशे स एवं पुनरप्यवाक् ॥२२॥ ग्रामीणस्य जडाग्रिमस्य नितमां ग्रामीणता कापि यः, स्वं ग्रामं दिविषत्पुरीयति कुटी मानी विमानीयति । स्वर्भक्ष्यीयति च स्वभक्ष्यमखिलं वेषं धुवेषीयति, स्वं शक्रीयति चात्मनः परिजनं सर्व सुपर्वीयति ॥२३॥ व्यधाद् बुधाग्रणीम्यसाम्यमप्येष मे ततः । इतोऽप्यन्तःपुरात्कापि परा रामास्ति किं परा ॥२४॥ इत्यन्तायिनं धात्र्याः स्वामिनं स शुकाग्रणाः । द्विधा मनोज्ञं प्राहेत्थं ना?क्तिर्हि नृणां मुदे ॥२५॥ युग्मम् ॥ तावदेव स्वकीयं भो भूपतेऽन्तःपुरं परम् । मन्यसे प्रेक्षसे यावन्न गाङ्गलिऋषेः सुताम् ॥२६॥ सर्वाङ्गसुभगां विश्वत्रितयेऽप्यतिशायिनीम् । सृष्ट्वा यां सृष्टिकृत्सृष्टिश्रमस्य फलमाप्तवान् ॥२७॥ सा कन्या येन नो दृष्टा निष्फलं तस्य जीवितम् । दृष्टापि येन नाश्लिष्टा निष्फलं तस्य जीवितम् ॥२८॥ तां बालां दृष्टपूर्वी यस्तस्यान्यासु रतिः कथम् । रज्यतेऽन्यत्र किं कुत्राऽप्यलिफ्लोक्य मालतीम् ॥२९॥ बालां कमलमालां तां सुतामिव दिवस्पतेः । चेद्दिदृक्षुर्जिघृक्षुश्च समागच्छेस्तदा द्रुतम् ॥३०॥