________________
प्रथमः
प्रकाशः
३२४
त्वमेव तिर्यक्प्रायो ऽसि यत्पित्रापि बहिष्कृतः । देवानामपि दुष्प्रापाद् भृत्यवद्दिव्यवस्तुनः ॥३२॥ रे रे द्वीपान्तरे दूरे प्राप्तः पित्रा तव क्वचित् । 'समन्धरकारनामा हि नीलाभस्तुरगोत्तमः ॥३३॥ कृशवक्रमुखः कर्णदुर्बलश्चञ्चलस्थितिः । स्कन्धार्गलः सरोषश्च कुनरेन्द्र इवैष च ॥३४॥ तथाप्ययं विश्वजनस्पृहणीयस्तु कौतुकं । सर्वाङ्गीणसमग्रद्धिर्हेतुर्नेतुर्निजस्य च ॥३५॥
यतः-निर्मासं मुखमण्डले परिमितं मध्ये लघु कर्णयोः स्कन्धे बन्धुरमप्रमाणमुरसि स्निग्धं च रोमोद्गमे । पीनं पश्चिमपार्श्वयोः पृथुतरं पृष्ठे प्रधानं जवे, राजा वाजिनमारुरोह सकलैर्युक्तं प्रशस्तैर्गुणैः ॥३६॥ अश्वारोहमन: स्पर्धादिवैकदिवसेन सः । योजनानां शतं याति जवनः पवनादपि ॥ ३७ ॥ संपत्प्ररोहेऽत्र महारोहेऽश्वारोहतां वहन् । प्राप्नोत्यहो सप्तमेऽह्नि वस्तु विश्वेऽप्यनुत्तरे ॥३८॥ त्वमरे स्वगृहस्यापि रहस्यं नावबुध्यसे । ज्ञंमन्यत्वेन मामेवं मुधैव च विभाषसे ॥३९॥ ज्ञास्यते तव धीरत्वं वीरत्वं विज्ञता च चेत् । त्वमाप्स्यसीति गीः खेऽगात्किन्नरः किन्नरीयुतः ॥४०॥ तदपूर्वतरं श्रुत्वा कुमारो गृहमागमत् । अत्युच्चैर्वञ्चितन्मन्यो मन्युमानुन्मनायितः ॥४१॥
१. समरान्धकारनामा नीला० इति को० ह० प्र० पाठः ।
ससससस
श्राद्धविधिप्रकरणम्