SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ प्रथमः श्राद्धविधिप्रकरणम् प्रकाशः औषधमेकमेव द्रव्यं, भेषजं तु बह्वौषधसंयोगः । साधुनिमन्त्रणभिक्षाग्रहणादिविधिविशेषो मत्कृतश्राद्धप्रतिक्रमणसूत्रवृत्तेरवधार्यः । इदं च सुपात्रदानमितिथिसंविभाग उच्यते । यदागमः-अतिहिसंविभागो नाम नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं दव्वाणं देसकालसद्धासक्कारकम्मजुयं पराए भत्तिए आयाणुग्गहबुद्धीए संजयाणं दाणं' इति । सुपात्रदानं च दिव्यौदारिकाद्यद्भुतभोगाभीष्टसर्वसुखसमृद्धिसाम्राज्यदिसंयोगप्राप्तिपूर्वकनिविलम्बनिर्वाणशर्मप्राप्तिफलम् । यतः अभयं सुपत्तदाणं, अणुकंपाउचिअकित्तिदाणं च । दोहि वि मुक्खो भणिओ, तिन्नि वि भोगाइअं दिति ॥ पात्रता त्वेवमुक्ताउत्तमपत्तं साहू, मज्झिमपत्तं च सावया भणिआ । अविरयसम्मदिट्ठी, जहन्नपत्तं मुणेअव्वं ॥ तथामिथ्यादृष्टिसहस्त्रेषु वरमेको ह्यणुव्रती । अणुव्रतिसहस्रेषु वरमेको महाव्रवी ॥ महाव्रतिसहस्रेषु वरमेको हि तात्त्विकः । तात्त्विकस्य (केन) समं पात्रं न भूतं न भविष्यति ॥ सत्पात्रं महती श्रद्धा काले देयं यथोचितम् । धर्मसाधनसामग्री बहुपुण्यैरवाप्यते ॥ अनादरो विलम्बश्च वैमुख्यं विप्रियं वचः । पश्चात्तापश्च पञ्चापि सद्दानं दूषयन्त्यमी ॥ ३२०
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy