SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः ३१३ न चेर्ष्या स्त्रीषु कर्त्तव्या दारा रक्ष्याः प्रयत्नतः । अनायुष्या भवेदीर्ष्या तस्मात्तां परिवर्जयेत् ॥ पानीयस्य क्रिया नक्तं तथैव दधिसक्तवः । वर्जनीया महाराज ! निशीथे भोजनक्रिया ॥ नोर्ध्वजानुश्चिरं तिष्ठैन्न भवेदुत्कटासनः । तद्वन्नोपविशेत्प्राज्ञः पादेनाऽऽकृष्य चासनम् ॥ नातिकल्यं नातिसायं न च मध्यन्दिने तथा । नाऽज्ञातैः सह गन्तव्यं नैको न बहुभिः सह । अवलोक्यो न चादर्शो मलिनो बुद्धिमन्नरैः । न च रात्रौ महाराज ! दीर्घमायुरभीप्सता ॥ वर्जयित्वा तु कमलं तथा कुवलयं नृप ! । रक्तमाल्यं न धार्यं स्यात् शुक्लं धार्यं तु पण्डितैः ॥ अन्यदेव भवेद्वासः शयनीये नरोत्तम ! । अन्यदर्चासु देवानामन्यद्धार्यं सभासु च ॥ वाक्पाणिपादचापल्यं वर्जयेच्चातिभोजनम् । शय्यादीपाऽधमस्तंभच्छायां दूरेण संत्यजेत् ॥ न नासिकां विकुश्लीयात् स्वयं नोपानहौ हरेत् । शिरसा न हरेद्धारं न प्रभावेत्प्रवर्षति ॥ भिन्ने भाण्डे कलिः प्रायः खट्वायां वाहनक्षयः । नाश्नन्ति पितरस्तत्र यत्र कुक्कुरकुर्कुटौ ॥ सुवासिनीं गुर्विणीं च वृद्धं बालातुरौ तथा । भोजयेत् संस्कृतान्नेन प्रथमं चरमं गृही ॥ अघं स केवलं भुङ्क्ते बद्धे गोवहनादिके । यो भुङ्क्ते पाण्डवश्रेष्ठ ! प्रेक्षतामप्रदाय च ॥ श्राद्धविधि प्रकरणम्
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy