________________
प्रथमः
प्रकाशः
२९६
लालयेत् पञ्च वर्षाणि, दशवर्षाणि ताडयेत् । प्राप्ते षोडशमे वर्षे, पुत्रं मित्रमिवाचरेत् ॥
गुरुदेवधम्ममुहिसयणपरिचयं कारखेड़ निच्वंपि । उत्तमलोएहिं समं, मित्तीभावं रयावेइ ॥
गुर्वादिपरिचये ह्याबाल्यात्सद्वासनावासित एव स्याद्वल्कलचीरिवत् । कुलजातिवृत्ताद्युत्तममैत्री जातु दैवान्नार्थं सम्पादयेत्तथाप्यनर्थपरिहाराय जायत एव । अभयकुमारमैत्री त्वार्द्रकुमारस्यानार्यदेशोपन्नस्यापि तद्भवसिद्ध्यै जज्ञे ।
गिण्हावेइ अ पाणि, समाणकुलजम्मरूवकन्नाणं । गिहभारम्म निजुंजड़, पहुत्तणं विअर कमेण ॥
'समाण त्ति' अननुगुणयोगे हि दम्पत्योर्विम्डम्बनैव गृहवासः । मिथो विरक्तत्वे चानुचितप्रवृत्त्याद्यपि स्यात् । श्रूयते हि धारायां भोजराज्ये एकत्र गृहे पुमानत्यन्तं कुरूपो निर्गुणश्च स्त्री चात्यन्तं सुरूपा सगुणा च । गृहान्तरे तु तद्वैपरीत्यं । अन्यदा चौरेण तद्गेहयोः खात्रप्रदाने उक्त्यादिनानुगुणौ दम्पती दृष्ट्वा सुप्तस्त्रीद्वयपरावर्त्तश्चक्रे । ययोः सुयोगो जज्ञे, तौ प्रागत्युद्विग्नौ तदा हृष्टौ मिलितौ । अन्येन तु नृपसमे तद्विवादे पटहोद्घोषे चौरेणोक्तं
मया निशि नरेन्द्रेण, परद्रव्यापहारिणा । लुप्तो विधिकृतो मार्गो रत्नं रत्नेन योजितम् ॥
हसितेन राज्ञा तथैव प्रमाणीचक्रे । विवाहभेदाद्यग्रे वक्ष्यते । 'गिह त्ति' गृहभारनियुक्तश्च सुतो निरन्तरतच्चिन्ताक्रान्तता स्वाच्छन्द्योन्मादादेरपदमेव स्यात् । बहुक्लेशायासलभ्यानि च धनानि जानन्नानुचिते व्यये धियं धत्ते । 'पहुत्तणं त्ति' गृहे प्रभुत्वं
श्राद्धविधिप्रकरणम्