SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ प्रथम: श्राद्धविधिप्रकरणम् प्रकाशः द्रव्यसमुदायरूपम् । इदं च निमन्त्रणं सम्प्रति गुरूणां बृहद्वन्दनकप्रदानानन्तरं श्राद्धाः कुर्वन्ति । येन च प्रतिक्रमणं गुरुभिः सह कृतं भवति, स सूर्योदयादनु यदा स्वगृहादौ याति तदा तत् करोति । यस्य च प्रतिक्रमणवन्दनकयोगो न स्यात्तेनापि वन्दनाद्यवसरे एवं निमन्त्रणं क्रियते । मुख्यवृत्त्या तु द्वितीयवारदेवपूजानैवेद्यढौकनानन्तरमुपाश्रये गत्वा साधून्निमन्त्रयेत् । श्राद्धदिनकृत्यसूत्रादौ तथा दर्शनात् । ततो यथावसरयोगं कारयति चिकित्सां, ददात्यौषधादि, विहारयति यथार्ह पथ्यादि, सारयति सर्वप्रयोजनानि । यतः दाणं आहाराई, ओसहवत्थाई जस्स जं जोगं । णाणाईण गुणाणं, उवठंभणहेउ साहूणं ॥ गृहागतानां च साधूनां यद् यद्योग्यं तत्तत्सर्वं विहारयितुं प्रत्यहं नामग्राहं कथयति, अन्यथा प्राकृतनिमन्त्रणस्य वैफल्यापत्तेः, नामग्राहं कथने तु यदि साधवो न विहरन्ति, तदापि कथयितुः पुण्यं स्यादेव । यदवोचाम मनसाऽपि भवेत्पुण्यं वचसा च विशेषतः । कर्त्तव्येनापि तद्योगे स्वर्द्वमोऽभूत् फलेग्रहिः ॥ अकथने तु विलोक्यमानमपि साधवो न विहरन्ति इति महती हानिः । एवं निमन्त्रणेऽपि जातु साधवो नायान्ति तदापि निमन्त्रयितुः पुण्यं स्याद्, भावविशेषे त्वधिकतरमिति' । यथा-वैशाल्यां छाद्मस्थ्ये चतुर्मासीतपसा प्रतिमास्थस्य श्रीवीरस्य प्रत्यहं २२९ १. मपि इति को० ह० प्र० पाठः ।
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy