________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
AAAAAAAAAAAAAAAAAAAAAAAAA
थावच्चासार्थवाहीपुत्रो द्वात्रिंशत्कन्यापतिः श्रीनेमिदेशनया प्रबुद्धः । मात्रा वारितोऽपि न स्थितः । माता दीक्षोत्सवाय कृष्णं राजचिह्नानि याचते । कृष्णोऽपि गृहमागत्य थावच्चापुत्रं प्राह-मा प्रावाजी गान् भुक्ष्व । तेनोक्तं-भीताय न स्वदन्ते भोगाः । हरिः प्राह-कुतो भयं मयि सति ? स प्राह-मृत्योः । ततः कृष्णकृतोत्सवः सहस्रेभ्यादियुतः प्राव्राजीत् । चतुर्दशपूर्वी जातः । सेलकपुरे सेलकनृपं मन्त्रिपञ्चशतीयुतं श्रावकीकृत्य सौगन्धिकापुर्यां प्राप्तः । त्रिदण्ड-कुण्डिका-छत्र-षण्णालक-अङ्कशपवित्रक-केसरीहस्तो, धातुरक्तवस्त्रवेषः, साङ्ख्यशास्त्रलब्धार्थः, प्राणातिपातविरमणादि पञ्चयम-शौचसन्तोषतपः स्वाध्यायेश्वरप्रणिधानरूपपञ्चनियमात्मकं शौचमूलं दशप्रकारं परिव्राजकधर्मं च प्ररूपयन्, सहस्रशिष्यपरिवृत्तो व्यासपुत्रः शुको नाम परिव्राजकस्तत्समयेऽभूत् । तेन प्राक् शौचमूलं स्वधर्मं ग्राहितः सुदर्शनाख्यो नगरश्रेष्ठी । थावच्चापुत्राचार्येण विनयमूलं स्वधर्म स्वीकारितः । तत्समक्षं शुकप्रश्ना यथा-'सरिसवया भन्ते । किं भक्खा अभक्खा ? सुआ ! भक्खा वि अभक्खा वि । ते दुविहा, मित्तसरिसवया धन्नसरिसवया । पढमा तिविहा, सहजाया सहवट्टिया सहपंसुकीलिआ । एए समणाणं अभक्खा । धन्नसरिसवया दुविहा, सत्थपरिणया इअरे अ । पढमा दुविहा, फासुगा अन्ने अफासुगा वि जाइआ अजाइआ य । जाइआ वि एसणिज्जा अन्ने अनेसणिज्जा वि लद्धा अलद्धा य । बिइआ सव्वत्थ अभक्खा, पढमा भक्खा । एवं कुलत्था वि मासा वि, नवरं मासा तिविहा, काल-अत्थ-धन्नभेआ । ज्ञाता०५-५५ एवं प्रबोधे सहस्रयुतशुकदीक्षा। थावच्चापुत्रः शत्रुञ्जये सिद्धः सहस्रयुतः । सेलकपुरेशं सेलकं पन्थकादिमन्त्रिपञ्चशतीयुतं दीक्षित्वा शुकोऽपि तथैव सिद्धः । सेलक एकादशाङ्गी पन्थकादिभिः पञ्चशत्या शिष्यैः सह विहरन् रूक्षाद्याहारैः कण्डूपित्तादिरोगाक्रान्तः सेलकपुरे प्राप्तः। पुत्रमण्डूकनृपेण स्वयानशालायां स्थापितः । प्रासुकौषधपथ्यैः पटूकृतोऽपि
२२६