________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
देवसिअपायच्छित्तेत्ति कायोत्सर्गः ततः प्राग्वत् क्षमाश्रमणद्वयं दत्त्वा स्वाध्यायः । अयं सान्ध्यवन्दनकविधिः । गुरोर्व्याक्षिप्तत्वादिना द्वादशावर्त्तवन्दनकायोगे थोभवन्दनेनापि गुरुं वन्दते । एवं वन्दनपूर्वं गुरुपायें प्रत्याख्यानं कार्यम् । उक्तञ्च
प्रत्याख्यानं यदासीत्तत्करोति गुरुसाक्षिकम् । विशेषेणाथ गृह्णाति, धर्मोऽसौ गुरुसाक्षिकः ॥
गुरुसाक्षित्वे हि दृढता 'गुरुसक्खिओ' इति जिनाज्ञाराधनं गुरुवाक्योद्भूतशुभाशयादधिकः क्षयोपशमः, तस्माच्चाधिका प्रतिपत्तिरित्यादिर्गुणः । तत्प्रोक्तं श्रावकप्रज्ञप्तौ
संतम्मिवि परिणामे, गुरुमूलपवज्जणंमि एस गुणो । दढया आणाकरणं, कम्मखओवसम वुड्डी अ॥
एवं च दैवसिकचातुर्मासिकनियमाद्यपि सम्भवे गुरुसाक्षिकं स्वीकार्यम् । अत्र द्वादशावर्त्तवन्दनविधिः । पञ्चनामादिभिविंशत्या मूलद्वारैडैिनवत्यधिकचतुःशतीप्रतिद्वाररूपः । प्रत्याख्यानविधिश्च दशप्रत्याख्यानादिनवमूलद्वारैर्नवतिप्रतिद्वारात्मको भाष्यादेरभ्यूह्यः । प्रत्याख्यानस्य स्वरूपं किञ्चित्प्रागुक्तम् । फलं तु षण्मास्याचाम्लतपोऽनन्तरमहेभ्यनृपखेचरेन्द्रादि-द्वात्रिंशत्कन्यापरिणेतृधम्मिलादीनामिवेहलोके, परलोके तु चतुर्हत्यादिमहापातककृत्षण्मासीतपस्तद्भवसिद्धदृढप्रहार्यादेवि प्रतीतम् । उक्तमपि
पच्चक्खाणम्मि कए, आसवदाराई हुंति पिहिआईं । आसववुच्छेओण य, तण्हावुच्छेअणं हवइ ।। तण्हावुच्छेएणं, अउलोवसमो भवे मणुस्साणं । अउलोवसमेण पुणो, पच्चक्खाणं हवइ सुद्धं ॥
२२२