SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ प्रथम: श्राद्धविधिप्रकरणम् प्रकाशः AAAAAAAAAAAAAAAAAAAAAAAAA कथायां तथोक्तेः । चैत्यद्रव्यभक्षणरक्षणादौ सागरश्रेष्ठिदृष्टान्तः । स चैवम् साकेतपुरे सागरश्रेष्टी परमार्हतः । तस्मै सुश्रावक इति कृत्वा शेषश्रावकैश्चैत्यद्रव्यं दत्तं प्रोक्तं च, चैत्यकर्मस्थाऽऽयकृतां सूत्रधारादीनां त्वया दातव्यमिति । सोऽपि लोभाभिभूतः सूत्रधारादीनां न रोक्यं द्रव्यं दत्ते, किन्तु समर्घाणि धान्यगुडतेलघृतवस्त्रादीनि चैत्यद्रव्येण सगृह्य तेभ्यो दत्ते, लाभं च स्वयं स्थापयति । एवं रूप्यकाशीतिभागरूपाणां काकणीनामेकः सहस्रो लाभेन सगृहीतः अर्जितं च तेनैवं कुर्वता घोरतरं दुष्कर्म । तच्चानालोच्य मृतो जलमानुषीभूयाऽब्ध्यन्तर्जलचरोपद्रवनिवारकाऽण्डगोलिकाग्रहणार्थजात्यरत्नग्राहकप्रयुक्तवज्रघरट्टपीडनमहाव्यथया मृत्वा तृतीयनरके नारकोऽजनि । यदुक्तं वेदान्तेऽपि देवद्रव्येण या वृद्धिगुरुद्रव्येण यद्धनम् । तद्धनं कुलनाशाय मृतोऽपि नरकं व्रजेत् ॥ नरकादुध्धृतश्च महामत्स्यः पञ्चधनुःशतमानो म्लेच्छकृतसर्वाङ्गच्छेदादिमहाकदर्थनया मृतश्चतुर्थपृथिव्याम् । एवमेकद्वयादिभवान्तरितो नरकसप्तकेऽपि द्विरुत्पेदे । ततः स एकसहस्रकाकणीप्रमाणदेवद्रव्योपजीवनात्सान्तरनिरन्तरोत्पत्त्या सहस्रं वारान् श्वा जातः । एवं सहस्रं वारान् गर्त्ताशूकरः, सहस्रं भवान् मेषः, सहस्रं भवानेडकः, सहस्रं भवान् मृगः, सहस्रं भवान् शशः, सहस्रं भवान् शम्बरः, सहस्रं भवान् शृगालः, सहस्रं भवान् मार्जारः, सहस्रं भवान् मूषकः, सहस्रं भवान् नकुलः, सहस्रं भवान् गृहकोलः, सहस्रं भवान् गृहगोधाः, सहस्रं भवान् सर्पः, सहस्रं भवान् वृश्चिकः, सहस्रं भवान् विष्टासु कृमिः । एवं सहस्रं सहस्रं भवान् पृथिवी-जलानलानिल-वनस्पति-शङ्ख-शुक्तिका-जलौक:-कीटिका-कीट-पतङ्ग-मक्षिका-भ्रमर-मत्स्य-कच्छप-खर AALA २०५
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy