SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ प्रथम: प्रकाशः परिधापनिका च मोच्या । अथाऽऽरात्रिकं समङ्गलप्रदीपमर्हतः पुरस्तादुद्द्योत्यम् । आसन्नं च वह्निपात्रं स्थाप्यं, 'तत्र लवणं मृदं | श्राद्धविधिच पातयिष्यते । प्रकरणम् उवणेउ मंगलं वो, जिणाण मुहरालिजालसंवलिआ । तित्थपवत्तणसमये, तिअसविमुक्का कुसुमवुट्ठी ॥ इत्युक्त्वा प्रथमं कुसुमवृष्टिः । ततःउयह पडिभंगपसरं, पयाहिणं मुणिवई करेऊणं । पडइ सलोणत्तणलज्जिअं व लोणं हुअवहम्मि ॥ इत्यादिपाठैर्विधिना जिनस्य त्रिः सपुष्पलवणजलोत्तारणादि कार्यम् । ततः सृष्ट्या पूजयित्वा आरात्रिकं सधूपोत्क्षेपमुभयत 4 उच्चैः सकलशजलधारं परित श्राद्धैः प्रकीर्यमाणपुष्पप्रकरम् मरगयमणिघडिअविसालथालमाणिक्कमण्डिअपईवं । ण्हवणयरकरुक्खित्तं, भमउ जिणारत्तिअं तुम्ह ॥ इत्यादिपाठपूर्व प्रधानभाजनस्थं सोत्सवमुत्तार्यते त्रिवारम् । यदुक्तं त्रिषष्ठीयादिचरित्रेकृतकृत्य इवाऽथाऽपसृत्य किञ्चित् पुरन्दरः । पुरोभूय जगद्भ रारात्रिकमुपाददे ॥ ज्वलद्दीपत्विषा तेन चकासामास कौशिकः । भास्वदौषधिचक्रेण शृङ्गेणेव महागिरिः ॥ १६६ १. लवणजलं च इति को० ह० प्र० पाठः । २. पश्यत । ३. इन्द्रः ।
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy