SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः १६३ च कीटकोशापविद्धानि शीर्णपर्युषितानि च । वर्जयेदूर्णनाभेन वासितं यदशोभनम् ॥ पूतिगन्धीन्यगन्धीनि अम्लगन्धीनि वर्जयेत् । मलमूत्रादिनिर्माणादुच्छिष्टानि कृतानि च ॥ सविस्तरपूजावसरे च नित्यं विशेषतश्च पर्वसु त्रिपञ्चसप्तकुसुमाञ्जलिप्रक्षेपादिपूर्वं भगवतः स्नात्रं विधेयम् । तत्रायं विधिः, प्रातः पूर्वं निर्माल्योत्सारणं प्रक्षालनं सङ्क्षेपपूजा आरात्रिकं मङ्गलप्रदीपश्च । ततः स्नात्रादिसविस्तरद्वितीयपूजाप्रारम्भे देवस्य पुरः सकुङ्कुमजलकलश स्थाप्यः ततः मुक्तालङ्कारविकारसारसौम्यत्वकान्तिकमनीयम् । सहजनिजरूपनिर्जितजगत्त्रयं पातु जिनबिम्बम् ॥ इत्युक्त्वाऽलङ्कारोत्तारणम् । अवणि कुसुमाहरणं पयइपइट्ठिअमणोहरच्छायं । जिणरूवं मज्जणपीठसंठिअं वो सिवं दिसउ ॥ इत्युक्त्वा निर्माल्योत्तारणम् । ततः प्रागुक्तकलशढालनं पूजा च । अथ धौतधूपितकलशेषु स्नात्रार्हसुगन्धजलक्षेपः, श्रेण्या | तेषां व्यवस्थापनं सद्वस्त्रेणाच्छादनं च । ततः स्वचन्दनधूपादिना कृततिलकहस्तकङ्कणहस्तधूपनादिकृत्याः श्रेणिस्थाः श्रावकाः कुसुमाञ्जलिपाठान् पठन्ति । तत्र सयवत्तकुंदमालइ, बहुविहकुसुमाई पंचवन्नाई । जिणनाहण्हवणकाले दिंति सुरा कुसुमंजली हिट्ठा ॥ श्राद्धविधि प्रकरणम्
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy