SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः १२९ मलोत्सर्गश्च मौनेन निरवद्याऽर्हस्थानादिविधिनैवोचितः । यतः - मूत्रोत्सर्गं मलोत्सर्गं मैथुनं स्नानभोजने । सन्ध्यादिकर्म पूजां च कुर्याज्जापं च मौनवान् ॥ विवेकविलासेऽपि - मौनी वस्त्रावृतः कुर्याद्दिने सन्ध्याद्वयेऽपि च । उद्मखः शकृन्मूत्रे रात्रौ याम्याननः पुनः ॥ नक्षत्रेषु समग्रेषु भ्रष्टतेजस्सु भास्वतः । यावदर्द्धादयस्तावत्प्रातः सन्ध्याऽभिधीयते ॥ अर्केऽर्द्धास्तमिते यावन्नक्षत्राणि नभस्तले । द्वित्राणि नैव वीक्ष्यन्ते तावत्सायं विदुर्बुधाः ॥ भस्मगोमयगोस्थानवल्मीकशकृदादिमत् । उत्तमद्रुमसप्तार्चिर्मार्गनीराश्रयादिमत् ॥ स्थानं चितादिविकृतं तथा कूलङ्कषातटम् । स्त्रीपूज्यागोचरं वर्ज्यं वेगाभावेऽन्यथा न तु ॥ युग्मम् ॥ श्री ओघनिर्युक्त्यागमे तु साधुमाश्रित्यैवमुक्तम् अणावायमसंलोए, परस्सऽणुवघाइए । समे अझुसिरे वावि, अचिरकालकयम्मि अ ॥ (३१३) वित्थिण्णे दूरमोगाढे, नासन्ने बिलवज्जिए । तसपाणबीअरहिए, उच्चाराईणि वोसिरे ॥ (३१४) १. उक्तं विवेकविलासे इति को० ह० प्र० पाठः । २. स्त्रीपूज्य इति को० ह० प्र० पाठः । श्राद्धविधि प्रकरणम्
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy