SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः शशाङ्केनोदये वायोः सूर्येणाऽस्तं शुभावहम् । उदये रविणा त्वस्य शशिनाऽस्तं शुभावहम् ॥ श्राद्धविधिकेषाञ्चिन्मते वारक्रमेण सूर्यचन्द्रोदयो, तत्र रविभौमगुरुशनिषु सूर्योदयः सोमबुधशुक्रेषु चन्द्रोदयः । केषाञ्चित् 4 प्रकरणम् सङ्क्रान्तिक्रमाद्, यथा मेसविसे रविचंदा इत्यादि । केषाञ्चिच्चन्द्रराशिपरावर्त्तक्रमेण - सार्द्धं घटीद्वयं नाडिरेकैकाऽर्कोदयाद्वहेत् । अरघट्टघटीभ्रान्तिन्यायो नाड्यो पुनः पुनः ॥ षट्त्रिंशद्गुरुवर्णानां या वेला भणने भवेत् । सा वेला मरुतो नाड्या नाड्यां सञ्चरतो लगेत् ॥ पञ्चतत्त्वानि चैवं - ऊर्ध्वं वह्निरधस्तोयं तिरश्चीन: समीरणः । भूमिर्मध्यपुटे व्योम सर्वगं वहते पुनः ॥ वायोर्व)रपां पृथ्व्या व्योम्नस्तत्त्वं वहेत् क्रमात् । वहन्त्योरुभयोर्नाड्योर्ज्ञातव्योऽयं क्रमः सदा ॥ पृथ्व्याः पलानि पञ्चाशच्चत्वारिंशत्तथाऽम्भसः । अग्नेस्त्रिंशत्पुनर्वायोविंशतिर्नभसो दश ॥ तत्त्वाभ्यां भूजलाभ्यां स्याच्छान्ते कार्ये फलोन्नतिः । दीप्ता स्थिरादिके कृत्ये तेजोवाय्वम्बरैः शुभम् ॥ जीवितव्ये जये लाभे सस्योत्पत्तौ च वर्षणे । पुत्रार्थे युद्धप्रश्ने च गमनागमने तथा ॥ पृथ्व्यप्तत्त्वे शुभे स्यातां वह्निवातौ च नो शुभौ । अर्थसिद्धिः स्थिरोा तु शीघ्रमम्भसि निर्दिशेत् ॥ युग्मम् । १७
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy