________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
स गाढाभिग्रहो यात्रां व्रजन् यक्षावतारिते । काश्मीरान्तःश्रीविमलगिरितीर्थेऽनमज्जिनम् ॥७१२॥ अतिष्ठिपच्च विमलपुरं तत्र चिरं स्थितः । कालेन सोऽपि भूपाल: कालधर्ममुपेयिवान् ॥७१३॥ मन्त्री सिंहस्ततस्तस्य समग्रं नागरं जनम् । सार्द्धमादाय भद्दिलपुरं प्रत्यचलत्तराम् ॥७१४॥ जननी जन्मभूमिश्च निद्रा पश्चिमरात्रिजा । इष्टयोगः सुगोष्टी च दुर्मोचाः पञ्च देहिभिः ॥७१५।। अर्द्धमार्गे गतस्याथ मन्त्रिणः स्मृतिमागमत् । तत्रैव विस्मृतं किञ्चिद्वस्तु सारतरं निजम् ॥७१६॥ बभाषे 'धीसखेनाथ चरकः स्वकसेवकः । भोः प्रयाहि पुरस्थाने वस्तु तत्तूर्णमानय ॥७१७।। सोऽप्यवक् कथमेकाकी शून्यस्थाने प्रयाम्यहम् । कोपं कृत्वा ततः प्रैषि मन्त्रिणा तत्र सोऽप्यगात् ॥७१८॥ भिल्लस्तत्तु निजगृहे जगृहे कोऽपि वस्त्वतः । न लेभे स ततः पश्चादेत्याऽमात्यं तथाऽभ्यधात् ॥७१९॥ क्रुद्धोऽमात्यस्त्वयैवाऽऽत्तमिति' व्यक्तमताडयत् । गाढं तत्रैव मूर्छालं जहौ हि लोभमूढता ।।७२०॥ मन्त्र्यथो लोकयुक् प्राप्तः स्वं भद्दिलपुरं क्रमात् । सचेतनश्च चरकः शीतलैरनिलैरभूत् ॥७२१॥ सार्थं स्वार्थपरं सर्वं गतं दृष्ट्वा च दध्यकौ । धिग् धिग् धीसखमधमं प्रभुतागर्वगवितम् ॥७२२॥
१. मन्त्रिणा । २. गृहीतम् ।
७३