________________
-१४७
१४८ -
Re-ऋषिभाषितानि -
यस्य - जीवमात्रस्य, यत् - अव्याबाधसुखज्ञानादि, अस्ति स्वस्वभावतया परिणतमास्ते, तद् लुप्यति - आवृत्य तिरस्कुरुते, कर्मेति गम्यते। एतदेव व्यतिरेकेणाह - असत्- आत्मन्यविद्यमानम्, किञ्चिदपि न लुप्यति - नैव तिरस्कुरुते। सति हि धर्मिणि धर्मचिन्तेतिन्यायात्तिरोभावलक्षणधर्मस्य धर्मिणमन्तरेणासम्भवात्। तस्मात् सत एव किञ्चित् - अल्पबवंशमात्रं लुप्यति - तिरस्कुरुते, सर्वथाऽऽवृतेरसम्भवात्, तथात्वे जीवस्याजीवत्वप्रसङ्गात्, यदाह- सव्वजीवाणंपि अ णं अक्खरस्स अणंतभागो निच्चुग्घाडिओ, जइ पुण सो वि आवरिज्जा, तेणं जीवो अजीवत्तं पाविज्जा, सुट्ठ वि मेहसमुदए होइ पभा चंदसूराणं - इति ।
किन्तु तदंशमात्रमपि सदेव लुप्यतीत्याह- न - नैव, असत्अविद्यमानमात्मनि, किञ्चिदपि लुप्यति। पुनरभिधान एतत् तात्पर्यम् - कर्म आत्मस्वभावं तिरस्कुरुत एतदेव ज्ञापयति यद् आत्माऽनन्तज्ञानसुखादिस्वभावः, तल्लुम्पनमेव तत्सत्तागमकमिति हृदयम्। चेच्चायं स्वभावः, तर्हि तद्विनाशोऽसम्भव्येव, आत्मनो नित्यत्वेन तत्स्वभावस्यापि तथात्वात्, इतरथा तत्स्वभावत्वस्यैवानुपपत्तेः, उक्तं च-णियभावं णवि मुंचइ परभाव णेव गिण्हए केई - इति । अनूदितं चैतत् - यदग्राह्यं न गृह्णाति, गृहीतं नापि मुञ्चति। जानाति सर्वथा सर्वं, तत् स्वसंवेद्यमस्म्यहम् - इति ।
एवं चाकिञ्चित्करप्रायत्वात् कर्मणां कृतं शुचा, स्वभावाविर्भाव एव यलो विधेयः, इतश्च तदकिञ्चित्करकल्पता, १. नन्दीसूत्रे ।।४३ ।। २. नियमसारे ।।९७।। ३. समाधितन्त्रे ।।२०।।
आर्षोपनिषद् - तेषामप्यात्मकृतत्वेन निमित्तमात्रत्वात्, आत्मन एव सुखदुःखादिकर्तृत्वात्, उक्तं च - अप्पा कत्ता विकत्ता य दुक्खाण य सुहाण य इति ।
अथैवम् - न च दुःखमिदं स्वयं कृतं न परै!भयजं न चाकृतम्। नियतं च न चाक्षरात्मकं विदुषामित्युपपादितं त्वया - इति ग्रन्थविरोध इति चेत् ? न, अभिप्रायापरिज्ञानात्, पुरुषकाराद्येकान्तनिरसनपरत्वादस्य। अयं भावः, यदि दुःखमेकान्तेनात्मकृतमेव तदा कर्मादेनिमित्तताया अप्यसम्भवः, तथा च तदसत्त्वापत्तिः, अन्यथासिद्धेः। यदर्थं हि यत् कल्प्यते तदन्यथासिद्धिरेव तदभाव इति। न चैतदिष्टम्, स्याद्वादस्य समुदायवादित्वात् । तदाह- कालो सहाव णियई पुवकयं पुरिस कारणेगंता। मिच्छत्तं ते चेव उ समासओ होंति सम्मत्तं - इति । एतेन - कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम्। संयोग एषां न त्वात्मभावादात्माप्यनीशः सुख-दुःखहेतोःइत्यपि व्याख्यातम्। तदेतद् ग्रन्थान्तरैः सिद्धमेवेति कृतं प्रसङ्गेन, प्रस्तुतं प्रस्तुमः। एवं च कर्माद्येकान्तस्यैव प्रतिक्षेपः, मुख्यगौणभावस्तु कथञ्चिदुपपद्यत एव, तस्मादात्मकृतं सुखदुःखादि, निमित्तमात्रता कर्मण इत्याह
१. उत्तराध्ययने ।।२०-३७।। २. सिद्धसेनी द्वात्रिंशिका ।।४-२४ ।। ३. कर्मादिसमुदायमेव हेतुतया वदतीति समुदायवादी। ४. सन्मती । ।३-५३ ।। ५. श्वेताश्वतरोपनिषदि । ।अ.१।। ६. दृश्यतां साङ्ख्यकारिकामाठरवृत्तिः।।६१।।, शास्त्रवार्तासमुच्चये ।।२/५२-८१ ।।, सूत्रकृताङ्गवृत्ती । ।पृ.२१०।।