SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Re- ऋषिभाषितानि -१२९ पर्यायान्तरत्वस्यैवानुपपत्तिरिति चेत् ? शुद्धनयाभिप्रायेण तथैव, उक्तरीत्या सर्वोपाधिशुद्धतायित्वाभावे तदव्यपदेशस्येष्टत्वात्। नन्वेवं शैलेश्या अर्वाक् कस्यापि तायित्वासम्भव इति चेत् ? को वा किमाह ? शुद्धनयेत्यादि तदेवावर्त्तते। अत एवैजनादिक्रियाणामष्टविधाद्यन्यतरबन्धव्याप्यत्वमागम उदितम्, यथा - जाव णं एस जीवे सया समिअं एअइ वेयइ जाव तं तं भावं परिणमइ ताव णं अट्ठविहबंधए वा सत्तविहबंधए वा छबिह-बंधए वा नो णं अबंधए - इति। न चासौ बन्धो निर्हेतुक इत्येजनादीनामेव तद्धेतुता प्रतिपत्तव्या, तेभ्य आरम्भादिसम्भवात्, संवादी चात्र सिद्धान्तः - जावं च णं से जीवे सया समियं जाव परिणमइ तावं च णं से जीवे आरंभइ सारंभइ समारंभइ, आरंभे वट्टइ सारंभे वट्टइ समारंभे वट्टइ, आरंभमाणे सारंभमाणे समारंभमाणे, आरंभे वट्टमाणे सारंभे वट्टमाणे समारंभे वट्टमाणे बहूणं पाणाणं भूयाणं जीवाणं सत्ताणं दुक्खावणयाए सोआवणयाए जूरावणयाए तिप्पावणयाए पिट्टावणयाए किलामणयाए उद्दावणयाए परियावणयाए वट्टइ - इति। इत्थं च व्यक्त एवास्य तायित्वविरहः। कस्तर्हि तायीत्याह स णो एजति णो वेयइ णो खुब्भइ णो घट्टइ णो फंदति णो चलति णो उदीरेति, णो तं तं भावं परिणमति से ताती ।।११-३।। स पूर्वोक्त एवावस्थान्तरे, अन्यो वा कश्चित्, न एजते, यावन्न तं तं भावं परिणमति, स तायी सर्वोपाधिशुद्धतया १. व्याख्याप्रज्ञप्तौ ।। आर्षोपनिषद् - षड्जीवनिकायत्राता निरुद्धयोगत्रयोऽयोगी भगवान्। यथाहुः परेऽपि - पारगू सब्बधम्मानं बुद्धो तादी पवुच्चति - इति । एतदेव समव्याप्तिप्रदर्शनार्थमाहतातीणं च खलु णस्थि एजणा वेयणा खोभणा घट्टणा फंदणा चलणा उदीरणा, तं तं भावं परिणामे।।११-४॥ सुगमम्। तदस्य तायिनस्त्राणविषयं विवेचयन्नाहताती खलु अप्पाणं च परं च चाउरंताओ संसारकंताराओ तातीति ताई ॥११-५।। तायी खलु आत्मानं च परं च चातुरन्तात्नरकादिगत्यपेक्षया चतुर्विभागात्, संसार एव कान्तारः संसारकान्तारः, क्षुधातृषाद्यनेकदुःखसन्दोहकारणतासाधर्म्यात्, तस्मात् त्रायत इति तायी - यथान्वर्थस्वकार्यकर्तेत्यभिप्रायः। परनिस्तारणं दुर्घटमिति चेत् ? न, व्याख्यान्तराश्रयणात्। अत्र तायः सुदृष्टमार्गोक्तिस्तद्वान् तायी, सुपरिज्ञातदेशनया विनेयपालयितेत्यर्थः । एतेनास्य ज्ञानसम्पन्नतोक्ता, उपलक्षणं चैतदन्यगुणानाम्, तथा च व्यक्तैव स्वपरनिस्तारकता, यदाह- ज्ञानी क्रियापरः शान्तो भावितात्मा जितेन्द्रियः। स्वयं तीर्णो भवाम्भोधेः पराँस्तारयितुं क्षमः - इति । प्रकरणागततायिन्येव समन्वयः कर्तव्य इति चेत् ? सोऽप्यतीतनयापेक्षया नासुकर इति सर्वमवदातम्। १. मज्झिमनिकाये । ।२.५.१.२९४ ।। २. द्वात्रिंशद्वात्रिंशिकास्वोपज्ञवृत्ती ।।२७-२०।। ३. ज्ञानसारे ।।९-१।।
SR No.009616
Book TitleRushibhashitani Part 1
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages141
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_anykaalin
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy