________________
८४
-
Re-ऋषिभाषितानि -
- ८३ ननु पापं तु तथाभूतमनुमन्यामहे, तद्धेयत्वेऽविगानात्, पुण्यं तु सर्वतन्त्रसिद्धान्तेनोपादेयमिति कथमस्य तत्त्वम् ? अथ च तत्त्वं कथमुपादेयतेति चेत् ? अत्रोच्यते, काञ्चननिगडोपमत्वात् पुण्यस्य मुक्तिबाधकतैव, उक्तं च - शुद्धा योगा रे यदपि यदात्मनां स्रवन्ति शुभकर्माणि। काञ्चननिगडाँस्तानपि जानीयाद्धतनिर्वृत्तिशर्माणि - इति । तथाप्युपादेयता न सामान्यतः, किन्तु पुण्यानुबन्धविशिष्टस्यैव, पारम्पर्येण तस्यैवोभयक्षयावहतया मुक्तिबीजत्वात्, परम्परकारणानभ्युपगमे त्वा शैलेष्यास्तत्प्रसङ्ग इति निपुणं निभालनीयम्। अत एवाहुराचार्याः - शुभानुबन्ध्यतः पुण्यं कर्तव्यं सर्वदा नरैः। यत्प्रभावादपातिन्यो जायन्ते सर्वसम्पदः - इति। चक्रवर्त्यादिसम्पत्सम्पादनपुरस्सरमस्य सिद्धिसम्पत्सम्पादकत्वात्, अतस्तदुपादेयताऽप्युभयविलयायेति मुख्यप्रयोजनमेवाह- पुण्यपापनिरोधाय शुभाशुभकर्मक्षयाय, मुमुक्षूणां तत्रैव प्रयोजनभावात्, प्राहुश्च - पुण्यापुण्यक्षयान्मुक्तिरिति शास्त्रव्यवस्थितेः । सम्यक् - आगमोदितनीत्या, अन्यथा सम्यक्त्वासम्भवात्, सम्परिव्रजेत् - वीतरागसंयमबद्धलक्ष्यतया परिव्रज्यामनुपालयेत्। भवसन्ततिहेतुतामेव स्पष्टयति
पुण्ण-पावस्स आयाणे परिभोगे यावि देहिणं। संतई भोगपाउग्गं पुण्णं पावं सयं कडं।।९-६।।
पुण्यपापयोः, वचनव्यत्ययः प्राकृतत्वात्, आदाने स्वाव१. मुक्तिप्रतिबन्धकत्वम् । २. शान्तसुधारसे ।।७-७।। ३. अप्टकप्रकरणे । ।२४-५ ।। ४. अष्टकप्रकरणे।।७-३||
आर्षोपनिषद् - गाहनावगाढकार्मणपुद्गलानामात्मनि कर्मतया परिणमने, परिभोगे चापि - तद्विपाकवेदने चापि, देहिनां - जीवानां सन्ततिःभवपरम्परा, कर्मबन्धोदयानामेवान्योऽन्यप्रयोजकानां संसरणबीजत्वात्। यतः स्वयं कृतं पुण्यं पापं च भोगप्रायोग्यम्, आत्मन एव परिभोगविषयम्। स च स्वरूपयोग्यतया कदाचिनिष्फलमपि स्यादित्यारेकानिरासाय प्रायोग्यमित्युक्तम्, अवश्यं फलावहमिति भावः, कडाण कम्माण न मोक्खु अत्थि - इत्यागमात् । किं तर्हि कर्तव्यमित्याह
संवरो निज्जरा चेव पुण्ण-पावविणासणं। संवरं निज्जरं चेव सव्वहा सम्ममायरे।।९-७।।
संवरः - जीवद्रोण्यामाश्रवत्कर्मजलानामिन्द्रियछिद्राणां समित्यादिना निरोधनम्, यद्वाऽसौ द्रव्यभावाभ्यां द्विविधः, द्रव्यसंवरः कर्मपुद्गलादानोच्छेदलक्षणः, भावसंवरः भवहेतुक्रियात्यागरूपः । निर्जरा च, साऽपि द्विविधा, द्रव्यनिर्जरा - कर्मणां शाटः, भावनिर्जरा- कर्मनिर्जरणप्रयोजकात्मपरिणामः । एतद्युगलमेव पुण्यपापविनाशनम्, नवादाननिरोध - प्राक्तननिर्गमाभ्यामेव मलशुद्धिरित्यस्य लोकेऽपि सिद्धत्वात्।
तस्मात् संवरं निर्जरां चैव, एतेनाश्रवव्यवच्छेदः। सर्वथा - संयमादिसामग्र्येण, यथोक्तम् - येन येन ह्युपायेन रुध्यते यो य आश्रवः। तस्य तस्य निरोधाय स स योज्यो मनीषिभिः।। क्षमया मृदुभावेन ऋजुत्वेनाप्यनीहया। क्रोधं मानं तथा मायां लोभं
१. उत्तराध्ययने ।।१३-१०।। २. योगशास्त्रे ||४-८०॥ ३. अध्यात्मसारे ।।१८-१५६।।