SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Re-ऋषिभाषितानि जरालक्षणमक्ष(लक्षि)तम्।।२।। साऽऽह देवाऽऽगतो दूतः, सम्भ्रान्तो भूमिभृद् भृशम्। उत्थायेतस्ततः पश्यन्नापश्यत् तं तयोदितम्।।३।। क्वासौ प्रिये ! नृपोऽपृच्छत्, धर्मदूतस्तु साऽवदत्। तयाऽऽवेष्ट्य ततोऽङ्गुल्या, शनैः पलितमुद्धृतम्।।४।। आच्छाद्य क्षौमयुग्मेन, स्वर्णस्थाले पुरान्तरे। भ्रामयित्वा तमधृति, चक्रे भूपो भृशं हृदि।।५।। प्रापुर्मेऽनागतेऽप्यस्मिन्, प्रव्रज्यां पूर्वजव्रजाः। ततः पद्मरथं राज्याधिष्ठातारं सुतं व्यधात्।।६।। स्वयं राज्या समं राजा, तापसव्रतमग्रहीत्। तथाऽणुमतिका दासी, दासः सङ्गतकोऽपि च।।७।। सर्वे सितगिरौ जग्मुस्तपोऽर्थं तापसाश्रमे। कालान्तरे व्रतं त्यक्त्वा, दासी दासश्च जग्मतुः।।८।। गर्भः पूर्वमनाख्यातो, महिष्या ववृधे तदा। अयशोभीरुणा राज्ञी, भूभुजा रक्षिता रहः।।९।। सौकुमार्यात् सुतां राज्ञी, प्रसुवाना व्यपद्यत। पिबन्ती स्तन्यमन्यासां, तापसीनां च सैधते।।१०।। कृतं नामाऽर्द्धसङ्काशा, तस्याः सा प्राप यौवनम्। अटव्या आगतं तातं, श्रान्तं विश्राम्यति स्म सा।।११।। सुकुमारकरस्पर्शात्, तस्यां रक्तोऽभवत् नृपः। गृह्णामि चाद्य कल्ये वा, चिन्तयन्निति तस्थिवान्।।१२।। तामाश्लेष्टुमधाविष्टोटजकाष्ठे नृपोऽन्यदा। चस्खाला (स्खलनाद-)चिन्तयत् चित्ते, धिङ् मां कामान्ध(न्थ्य)बाधितम्।।१३।। प्रेत्य न ज्ञायते किं स्यादेतच्च फलमैहिकम् ?। सम्बुद्धश्चावधिज्ञानं लेभे कर्मक्षयोद्भवम्।।१४।। सर्वकामविरक्तेन, भाव्यं भोः ! खलु देहिना। बभाषेऽध्ययनं चैतद्, राजर्षिर्देविलासुतः।।१५।। विरक्तां तां सुतां दत्त्वा, संयतीभ्यः स्वयं नृपः। उत्पाद्य केवलं सिद्धोऽर्द्धसङ्काशाऽपि २२ - आर्षोपनिषद् - निर्वृता।।१६।। इति श्रीदेविलासुतराजर्षिकथा।। लेपोपरतिप्रतिपत्तये लेपनिबन्धनान्येव परिज्ञापयतिसुहुमे व बायरे वा पाणे जो तु विहिंसइ। राग-दोसाभिभूतप्पा लिप्यते पावकम्मुणा।।३-२।। सूक्ष्मान् वा बादरान् वा प्राणान् - जीवान् यस्तु विहिंसति- प्रमादयोगाद् व्यापादयति रागद्वेषाभिभूतात्मा लिप्यते पापकर्मणा, आह च - रागो य दोसो वि य कम्मबीयं - इति । नन्वेवं हिंसाऽन्यथासिद्धेति चेत् ? न, सविशेषणे हीत्यादिन्यायेन हिंसायाः प्रमादपर्यवसायित्वात्, नैतत् स्वमनीषिकयैवोच्यते, किं तर्हि ? उपनिबन्धनमप्यस्य पारमर्षम्- आया चेव अहिंसा आया हिंस त्ति निच्छओ एसो। जो होइ अपमत्तो अहिंसओ हिंसओ इयरो - इति । प्रमादस्य च कथञ्चिद्रागादिरूपतया युक्तैव कर्मबीजतेति सर्वमवदातम्। अन्यदप्याह परिग्गहं गिण्हते जो उ अप्पं वा जति वा बहु। गेही-मुच्छायदोसेणं लिप्पए पावकम्मणा।।३-३।। परिग्रहं गृह्णाति यस्त्वल्पं वा यदि वा बहुं गृद्धिःअप्राप्ताऽऽकाङ्क्षा, मूर्छा - प्राप्ताभिष्वङ्गः, तल्लक्षणदोषेण, स लिप्यते पापकर्मणा। अत्राप्युक्तरीत्या परिग्रहस्य मूर्छायां पर्यवसानं द्रष्टव्यम्। प्राहुश्च - मुच्छा परिगहो वुत्तो - इति । अत्राद्यन्तग्रहणेन मध्यग्रहणन्यायान् मृषावादादिवक्तव्यताऽपि १. उत्तराध्ययने । ।३२-७।। २. ओघनिर्युक्ती । ७५४ ।। ३. अत्रार्थे मुच्छाय-पद प्राकृतत्वात्सम्भाव्यते। ४. दशवकालिके ।।६-२१ ।।
SR No.009616
Book TitleRushibhashitani Part 1
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages141
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_anykaalin
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy