SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Re-ऋषिभाषितानि गुरुकुलवासं न मुञ्चन्ति।। तद्वान् - गुर्वाज्ञावर्तितया तदासेविता। स एवम्भूतः सर्वदुःखप्रहीणः, विशेषणपरनिपातः प्राकृतत्वात्, ततश्च प्रकर्षण हीनानि-सर्वथाऽपगतानि दुःखानि यस्य स इत्यर्थः, तुः - अवधारणार्थः, श्रोतव्यादानेन प्रनष्टसर्वदुःखो भवत्येव, उपेयव्यभिचारिण उपायत्वायोगादिति भावः। सितं मातं येन सः-सिद्धः, बद्धकर्मनि शयितेत्यर्थः। तादृशो भवति, अत एव नीरजाः-निर्गतकर्मरजस्को भवति। तस्मात् - सच्चं चेवोपसेवंती, दत्तं चेवोपसेवंती, बंभं चेवोपसेवंती। सच्चं चेवोवधाणवं, दत्तं चेवोवहाणवं, बंभं चेवोवधाण ॥१-६॥ सत्यं चैवोपसेवन्ते श्रुतश्रोतव्याः शुभात्मनः, तदाहप्रमाद्यन्ति शुभात्मानो न हि ज्ञात्वा मनागपि इति । दत्तं चैवोपसेवन्ते, सव् से जाइयं होइ नत्थि किंचि अजाइयं - इति वचनात् । ब्रह्म चैवोपसेवन्ते इतरस्याधर्ममूलकत्वात् । ततश्च तदात्मकता, गुण-गुणिनोरभेदाच्चेति दर्शयति - सत्यं चैवोपधानवान् - उक्तस्वरूपः, दत्तं - तात्पर्याद्दत्तादानं चैवोपधानवान्, ब्रह्म चैवोपधानवान्। प्रतिपाद्यानुरोधात् पञ्चमहाव्रतविवदिषया मध्यग्रहणेनाद्यन्तग्रहणमत्र द्रष्टव्यम्। उपसंहरन्नाह एवं से सिद्ध बुद्धे विरते विपावे दंते दविए अलं ताई णो पुणरवि इच्चत्थं हव्वमागच्छइ त्ति बेमि।। एवम्- श्रोतव्यसमासेवनेन स - महात्मा, सिद्धः - अणि आर्षोपनिषद् - मादिसिद्धिसम्पन्नो बुद्धः - आलोकितलोकालोककेवलज्ञानलक्षणबोधविभूषितः, विरत:-यथाख्याताख्यशीलशाली, विपापः - पापहेतुकक्रियाविरहितः, दान्तः - विषयशून्यतायोगात् सर्वथा दमितेन्द्रियः, आह च - रागद्वेषक्षयादेति ज्ञानी विषयशून्यता - मिति'। द्रवितुं - सिद्धपर्यायं गन्तुं योग्यः- द्रव्यः, अत्यन्तमासन्नभव्य इति भावः। अलम्- स्वपरनिस्तारणसमर्थः, अत एव तायी -परित्राणशीलः। स एष सिद्धिसौधाध्यारूढः सन् न पुनरपि इत्यर्थं एवम्भूतं जन्मादिदुःखात्मकं संसाराख्यमर्थं हव्वमिति कदाचिदं, आगच्छति', अपुनरागतिगतत्वात्तस्येति यत् तीर्थकरादिभिरुक्तं तदहं ब्रीवीमीति प्रथमाध्ययन आर्षोपनिषद्। ॥ अथ द्वितीयाध्यायः।। अत्राऽप्यपुनरागतिगतिहेतुरेव प्रतिपाद्यविशेषानुरोधात् प्रकारान्तरेणाऽभिधीयते, "जस्स भीता पलायंति जीवा कम्माणुगामिणो। तमेवादाय गच्छंति किच्चा दिन्ना व वाहिणी ।।२-१।।" ___ वज्जियपुत्तेण अरहता इसिणा बुइतं। यस्येति यस्मात्, प्राकृतत्वात्, भीताः पलायन्ते जीवाः कर्मानुगामिनः, कर्मवशवर्तिन इति भावः। तमेव- भयनिमित्तमेव, आदाय गच्छन्ति। अयं भावः, इह तावत् सर्वेऽपि सत्त्वा दुःखैकभीरवस्तद्विप्रयोगबद्धलक्षास्ततो दूरं पलायन्ते। किं तत्र १. अध्यात्मसारे ।।१५-४७।। २. त्रायी बा। ३. सम्भाव्यतेऽत्र इत्वत्थं (इत्थंस्थम्) इति पाठः, यथा दशवकालिके - जाइमरणाओ विमुच्चइ इत्वत्थं च चयइ सव्वसो ।।९४-७।। ४. आगमिकोऽयमर्थः, दृश्यतां जम्बूद्वीपप्रज्ञप्तो पत्रम् ।।१२२ ।। ५. पुनः पुनः फलोपदर्शनं प्रेक्षावत्प्रवृत्त्यर्थम् । ६. क-ख-ग-ध-छ-ज-र-ठ-ड-ढ-ण-त-प-फ-दिन्नं । झ-च- दिना। १. त्रिषष्टिशलाकापुरुषचरित्रे । २. उत्तराध्ययने ।।२-३०।। ३. दशकालिके ।।६१६।। ४. एतच्च प्राक् स्पष्टीकृतम्, दृश्यताम् ।।१-२ ।। पृ.६, द्वितीयं टिप्पनकम् ।
SR No.009616
Book TitleRushibhashitani Part 1
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages141
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_anykaalin
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy