SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Re-ऋषिभाषितानि - तओ कण्हवासुदेवेण भणियं - जत्थेव तं पुच्छियं तत्थ एयंपि पुच्छियव्वं हुन्तत्ति खिसिओ। ताहे नारओ भणइ - सच्चं भट्टारओ न पुच्छिओत्ति, चिन्तेउमारद्धो, जाई सरिया, संबुद्धो, पढममज्झयणं 'सोयव्वमेव' इच्चाइयं वदति। तच्चेदम् - "सोयव्वमेव वदती, सोयव्वमेव पवदति, जेण समयं जीवे सव्वदुक्खाण मुच्चति। तम्हा सोयव्वातो परं णस्थि सोयं" ति देवनारदेणं अरहता इसिणा बुइयं।।१-१।। श्रोतुं योग्यं श्रोतव्यम्, तच्च धर्मवच एव, धर्मोऽपि सर्वविरतिलक्षणः, इतरस्यापवादभूतत्वात्, एतच्चाध्ययनप्रवक्तुरपि सम्मतमित्यग्रे स्फुटीभविष्यति। तदेव वदति तीर्थकरगणधरप्रभृतिः। एवकारेणान्यदभिधानव्यवच्छेदः, परार्थसारत्वात् तद्गिराम्। एवकारमेव दृढयति श्रोतव्यमेव प्रकर्षणेतरहेयत्वदुर्विपाकादिप्रतिपादनपुरस्सरं प्रस्तुतोपादेयतादिविधानलक्षणेन वदति तीर्थकरादिः। येन- श्रोतव्यश्रवणेन समयं-सिद्धान्तमवगम्य जीव:श्रोतृलक्षणः सर्वदुःखेभ्यः मुच्यते। यद्वा समय इत्याचारः श्रोतव्यवचनानुष्ठाम्, तं विधाय मुच्यत इत्यर्थः, ज्ञानमात्रेण सिद्धिविरहात्। यद्वा सम्यगयः समय:- सम्यग् दयापूर्वकं जीवेषु गमनं - प्रवर्तनमित्यर्थः। अहिंसायामेव श्रोतव्यतात्पर्यात् । शेषं १. न चापवादपदेनापि देशविरतिदेशनाविरहप्रतिपत्तिप्रसङ्ग इति वाच्यम्, परार्थ इत्याद्यनन्तरग्रन्थेन हिंसादिव्यवच्छेदतात्पर्यस्य गम्यमानत्वात् । २. पञ्चम्यर्थे पष्ठी, सुपा सुपो भवन्तीति न्यायात् । ३. आगमिकोऽयमर्थः, दृश्यताम्-आचाराङ्गे पृ.१५३, राजप्रश्नीये पृ.११३। ४. शेषव्रतानामप्यहिंसावृत्तिरूपत्वेन तदर्थत्वात् । आर्षोपनिषद् -60 प्राग्वत्। ततः किमित्याह तस्मात्- अनन्तरोक्ताद्धेतोः श्रोतव्यात् परं प्रकृष्टं नास्ति शौचम्, शुचीकुरुते कर्ममलमलिनमात्मानमिति निरुक्तियोगात्। यद्वा शौचमिति सत्यम् , तदपि श्रोतव्यमेव परमार्थतः, सद्भ्यो हितत्वात्, मुक्तिहेतुभूतज्ञानक्रियानिबन्धनत्वात्, यदाहुः-सोच्चा जाणइ कल्लाणं सोच्चा जाणइ पावगं। उभयं पि जाणइ सोच्चा जं सेयं तं समायरे - इति । इति - अनन्तरोक्तं वाक्यम्, देवनारदेण अध्ययनपीठिकोक्तस्वरूपेण, देवोपपदं देवानुकम्पितत्वेन तद्वद् गगनगामितया च सम्भाव्यते। तमेव विशेषयति- अर्हताप्रत्येकबुद्धतया देवादिपूजनीयेन, यद्वा न विद्यते रहः शौचादिविषयगुह्यता, तदज्ञानमिति यावत्, यस्येत्यरहा, तेन ऋषिणा-श्रोतव्यमेव परं शौचमितितत्त्वज्ञेन , उदितम् - भाषितम्। एतच्च वक्ष्यमाणेनापि योज्यम्। नन्वनेकतीर्थिका अस्माकमेव शासनं श्रोतव्यमित्यभिदधन्ति, परस्परं विरुद्धानि च तानीति न ज्ञायते किं श्रोतव्यमित्यत्राह पाणातिवातं तिविहं तिविहेणं णेव कुज्जा ण कारवे। पढमं सोयव्वलक्खणं १। मुसावादं तिविहं तिविहेणं णेव बूया ण भासए। बितियं सोयव्वलक्खणं २। अदत्तादाणं तिविहं तिविहेणं णेव कुज्जा ण कारवे। ततियं सोयव्वलक्खणं ३। अब्बंभ-परिग्गहं तिविहं तिविहेणं णेव कुज्जा ण १. एतदर्थः प्रागुक्तसम्प्रदायानुरोधेनोक्तः । २. दशवैकालिके ।।४-३४ ।। ३. ऋषति जानाति तत्त्वमिति ऋषिः।
SR No.009616
Book TitleRushibhashitani Part 1
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages141
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_anykaalin
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy