SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ नर-ऋषिभाषितानि -१७७ छिन्नादानम् - संवरानुभावेन निरुद्धाश्रवम्, तथा - वक्ष्यमाणप्रकारेण, आहतम् - स्थित्यादिघातमापन्नम् तत् - प्रकरणागतम्, कर्म - ज्ञानावरणादि, ध्रुवम् - निश्चितमेव, क्षीयते गुणश्रेण्यादिक्रमेणात्यन्तिकं क्षयमुपगच्छति। यथाऽऽदित्यरश्मितप्तम् - सूर्यांशुभिरुष्णीभूततया प्रारब्धबाष्पीभवनम्, छिन्नादानम् - निरुद्धजलसञ्चयसञ्चरम्, जलमिव - पानीयवत्। एवं संवरनिर्जराभ्यां कर्मक्षय इति भावितार्थम्। उपसंहरति तम्हा उ सबदुक्खाणं, कुज्जा मूलविणासणं। वालग्गाहि व्व सप्पस्स, विसदोसविणासणं।।१५-३२।। तस्मात्तु सर्वदुःखानां कुर्यान्मूलविनाशनम्, तन्मूलकर्मोन्मूलनेन। व्यालग्राहीव यथाऽऽहितुण्डिकः सर्पस्य - उरगस्य विषदोषविनाशनम् - विषविकारक्षयं तत्प्रसरनिरोधप्रतिघाताभ्यां कुरुते। आमेडितमपीदमतिदुष्करतयाऽनादिकुवासनाऽनुभावेन चानुपादेयं स्यादिति फलज्ञापनेन तत् प्रति प्रोत्साहयति एवं से सिद्धे बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि।। एवमित्यादि प्राग्वत्। इति पञ्चदशममधुरायणीयनामाध्यन आर्षोपनिषद्। आर्षोपनिषद्॥ अथ षोडशाध्यायः॥ अनन्तराध्ययने दुःखमूलोन्मूलनोपदेशोऽभिहितः, तच्चाविजितेन्द्रियाणां दुर्घटम्, इत्यत्र तद्विजयोपदेशमेवाचष्टे 'जस्स खलु भो ! विसयायारा ण य परिस्सवंति इंदिया वा दवेहि, से खलु उत्तमे पुरिसे' त्ति सोरियायणेण अरहता इसिणा बुइत।।१६-१।। यस्य खलु भो ! विषयाकाराः-विषयविकृतचित्तपरिणामाः, न च-नैव परिस्रवन्ति-विलीनीभूतविरागलक्षणप्राच्यपरिणामतया स्यन्दन्ति, इन्द्रियाणि वा हृषीकानि वा स्पार्शनादीनि। किंहेतुनेत्याह द्रावयन्ति शिलानिभमपि चित्तं स्वसन्निधानेनेति द्रवाः - स्पर्शादिविषयाः, तैः। उक्तं च - गीयत्थो वावि भाविओ। संतेसाहारमाईसु सो वि खिप्पं तु खुब्भइ।। मयणनवणीयविलओ, जह जायइ जलणसन्निहाणम्मि। तह रमणीसन्निहाणे, विद्दवइ मणो मुणीणं पि।। तथा चागमः-जतुकुंभे जहा उवज्जोई, संवासे विदू विसीएज्जा।। जतुकुंभे जोइउवगूढे, आसुऽभितत्ते णासमुवयाइ। एवित्थियाहिं अणगारा, संवासेण णासमुवयंति - इति ।। ___एवं सत्यपि योऽपरिस्रावीन्द्रियः, तमुद्दिश्याह- स खलूत्तमः - श्रेष्ठः पुरुषः। यद्बोद्गतं तमः तमस्तमादिनरकवर्तिसन्तमसं यस्येत्युत्तमः, उच्छिन्ननरकदुःख इत्यर्थः, अद्रुतस्य कामोद्भवासम्भवात्, कामानामेव नरकमूलत्वात्, वक्ष्यते च - सब्वे य कामा णिरयाण मूलं - इति । १. इन्द्रियपराजवशतके ।।४१।। २. सूत्रकृताङ्गे।।१-४-१ ।।२७-२८।। ३. ऋषिभाषिते ।।४५-१।। Ashopnisad_2.p65 2nd Proof
SR No.009616
Book TitleRushibhashitani Part 1
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages141
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_anykaalin
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy