SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ -१६७ नल-ऋषिभाषितानि - तदुपादानयत्नेन स्वविनिघातमेव तनोतीत्याशयः। किञ्च परोवघाततल्लिच्छो, दप्पमोहमलुडुरो। सीहो जरो दुपाणे वा, गुणदोसं ण विंदती।।१५-१७।। परोपघातः - पृथिव्याद्यारम्भः, तस्मिन् तल्लिच्छ इति देश्यशब्दस्तत्परपदपर्यायः, जीवहिंसातल्लीन इति समासार्थः । अत्रापि हेतुः प्रत्युत्पन्नरसगृद्धिः, नानुपहत्य भूतानि भोगः सम्भवतीति नीत्या। तथा दर्पः - को नु मत्सुखसम्प्राप्तिप्रत्यूह ? इत्यभिमानरसः, मोहः शलभवदात्मघातप्रयत्लोऽयं ममेति तत्त्वानभिज्ञः, दर्पमोहावेव मलः - कल्मषम्, विवेकप्रेक्षाकलुषीकरणात्, यद्वा मलते-धारयति जीवं भवावर्त्त इति मलः, मल धारणे, अच्। तेनोद्धरः - सम्भावितात्मोच्चभावः। सोऽयं मलावृतचैतन्यो गुणदोषान् - आत्मकल्याणतदपायात्मकान्, न विन्दति - न चेतयते। उक्तं चहिताहितविवेकान्धाः, खिद्यन्ते साम्प्रतेक्षिणः।। जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुतम्। वीक्षमाणा अपि भवं, नोद्विजन्तेऽतिमोहतः।। कुकृत्यं कृत्यमाभाति, कृत्यं चाकृत्यवत्सदा। दुःखे सुखधियाकृष्टाः, कच्छूकण्डूयकादिवत्।। यथा कण्डूयनेष्वेषां, धीन कच्छूनिवर्तने। भोगाङ्गेषु तथैतेषां, न तदिच्छापरिक्षये।। आत्मानं पाशयन्त्येते, सदाऽसच्चेष्टया भृशम्। पापधूल्या जडा कार्यमविचार्यैव तत्त्वतः।। धर्मबीजं परं प्राप्य, मानुष्यं कर्मभूमिषु। न सत्कर्मकृषावस्य, प्रयतन्तेऽल्पमेधसः।। बडिशामिषवत्तुच्छे, कुसुखे १६८ - आर्षोपनिषद् - दारुणोदये। सक्तास्त्यजन्ति सच्चेष्टां, धिगहो दारुणं तमः - इति । अत्रार्थे दृष्टान्तमाह, वा - यथा जरन् - वृद्धः, सिंहः - पञ्चाननः, दुष्टम् - ग्राहादिप्रत्यपायवत्त्वेन सदोषम्, पानम् नद्यादिजलपानस्थानम् - दुःपानम्, तस्मिन्। यथा ह्यसावाजीवनं समभ्यस्तमृगेन्द्रत्वतया दर्पाविष्टचित्तो जराजर्जरीकृतस्वशरीरमपश्यन् धाय॑मालम्ब्य सापाये पानके जलं पिबन् लब्धछिद्रेण ग्राहादिना गृहीतः सन् दौर्बल्यातिशयेन नात्मानं मोचयितुमपि प्रत्यलो भवति, किं पुनः परं पराजेतुम्, ततश्च विनिघातमापद्यते। इत्थं चसवसो पावं पुरोकिच्चा, दुक्खं वेदेति दुम्मती। आसत्तकंठपासो वा, मुक्कधारो दुहट्टिओ।।१५-१८।। दुर्मतिः - दर्पाविष्टदुष्टबुद्धिः स्ववशः - स्वाधीनः, स्वरससहित इति यावत्, पुरा - प्राक्, पापम् - अशुभकृत्यम्, तत्फलमशुभं कर्म वा। कृत्वा - विधाय दुःखम् - तद्विपाकोदयेन फलितम्, वेदयति - निषहते। उदाहरणमाह- वा - यथा, आसक्तः-अत्यन्तं विलग्नतयाऽऽरोपितो निजे कण्ठे पाशो येन स आसक्तकण्ठपाशः, मुक्ता - छेदनार्थं प्रयुक्ता, धारा निशातक्षुरप्रादिसत्का येन सः - मुक्तधारः, दुःखार्त्तितः - स्वनिमन्त्रितदुःखेनातिकष्टितः। ___इदमुक्तं भवति- यथा कश्चिदुर्मतिः स्वरसेनैवोल्लम्बितमात्मानं विधायाक्षिनिर्गमादिदुःखभीतः समुत्पन्नकिञ्चिद्वेदनः प्रागेव कृत१. योगदृष्टिसमुच्चये ।।७८-८४ ।। २. झ- धारो (?हो)। १. उद्धृतं योगदृष्टिसमुच्चये । ।१५९।। वृत्ती। Ashopnisad_2.p65 2nd Proof
SR No.009616
Book TitleRushibhashitani Part 1
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages141
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_anykaalin
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy