SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ [७३ नवमं परिशिष्टम् ] चौलुक्यक्षितिपालमौलिसचिव ! त्वत्कीर्तिकोलाहलस्त्रैलोक्येऽपि विलोक्यमानपुलकानन्दाश्रुभिः श्रूयते । किं चैषा कलिदूषिताऽपि भवता प्रासाद-वापी-प्रपाकूपा-ऽऽराम-सरोवरप्रभृतिभिर्धात्री पवित्रीकृता ॥५॥ स श्रीतेजःपालः, सचिवश्चिरकालमस्तु तेजस्वी । येन वयं निश्चिन्ताश्चिन्तामणिने(*)व नन्दामः ॥६॥ लवणप्रसादपुत्रश्रीकरणे लवणसिंहजनकोऽसौ । मन्त्रित्वमत्र कुरुतां, कल्पशतं कल्पतरुकल्पः ॥७॥ पुरापादेन दैत्यारे वनोपरिवर्तिना । । अधुना वस्तुपालस्य, हस्तेनाध:कृतो बलिः ॥८॥ दयिता ललितादेवी, तनयमवीतनयमाप सचिवेन्द्रात् । नाम्ना जयन्तसिंह, जयन्तमिन्द्रात् पुलोमपुत्रीव ॥९॥ (*) [एते] श्रीगूर्जरेश्वरपुरोहित ठ० श्रीसोमेश्वरदेवस्य । स्तम्भतीर्थेऽत्र कायस्थवंशे वाजडनन्दनः । प्रशस्तिमेतामलिखत् , जैत्रसिंहध्रुवः सुधीः ॥१॥ वाहडस्य तनूजेन, सूत्रधारेण धीमता । एषा कुमारसिंहेन, समुत्कीर्णा प्रयत्नतः ॥२॥ श्रीनेमेस्त्रिजगद्भर्तुरम्बायाश्च प्रसादतः । वस्तुपालान्वयस्यास्तु , प्रशस्तिः स्वस्तिशालिनी ॥३॥ (गिरनार इन्स्क्रिप्शन्स् नं. २। २१-२३) । 20 15 १. पद्यमिद प्राचीनजैनलेखसङ्ग्रह २ भागे ६४सङ्ख्य १०१सङ्ख्यार्बुदाचलसत्कशिलालेख्योः क्रमशः ४७तमं प्रथमं च सोमेश्वरदेवकृतिरूपेणैव वर्त्तते ॥ २. पद्यमिदं प्राचीनजैनलेखसङ्ग्रह २ भागे ६४सङ्ख्यार्बुदाचलसत्कशिलालेखे ४४तमं सोमेश्वरदेवकृतिरूपेणैव वर्त्तते ॥ ३. पद्यमिदं प्राचीनजैनलेखसङ्ग्रह २ भागे ४१-४२-४३ सङ्ख्यगिरिनारसत्कप्रशस्तिष्वपि प्रान्तभागे वर्त्तते ॥ ४. पद्यमिदं प्राचीनजैनलेखसङ्ग्रह २ भागे ४२-४३ सङ्ख्यगिरिनारसत्कप्रशस्त्योः प्रान्तभागेऽपि वर्त्तते ॥ ५. पद्यमिदं प्राचीनजैनलेखसङ्ग्रह २ भागे ३९-४०-४२-४३ सङ्ख्यगिरिनारसत्कप्रशस्तिष्वपि प्रान्तभागे वर्त्तते ।। D:\sukarti.pm5\3rd proof
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy