SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ [६३ 10 षष्ठं परिशिष्टम् ] तमेकदा करारोपभत्सितस्वर्णशेखरः । श्रीतेजःपालमन्त्रीशो, मुदा ज्येष्ठं व्यजीज्ञपत् ॥६४॥ सुव्रतक्रमनमस्कृतिहेतोर्यातवान् भृगुपुरं प्रति सोऽहम् । काव्यमुज्ज्वलनयो जयसिंहसूरिरित्यपठदत्र मदग्रे ॥६५॥ तेजःपाल ! कृपालुधुर्य ! विमलप्राग्वाटवंशध्वज !, श्रीमन्नम्बडकीर्तिरद्य वदति त्वत्सम्मुखं मन्मुखात् । आजन्मावधि वंशयष्टिकलिता भ्रान्ताऽहमेकाकिनी, वृद्धा सम्प्रति पुण्यपूर्ण ! भवतः सौवर्णयष्टिस्पृहा ॥६६।। इत्युक्त्वा मम पञ्चविंशतिमितास्तेन स्वयं दर्शितास्तस्मिन् सुव्रतधाम्नि देवकुलिकाः कल्याणकुम्भस्पृशः । ताः सौन्दर्यभृतोऽपि कान्तिनिधिभिः कल्याणदण्डैविना, सीमन्तैरिव सुभ्रुवौ विदधते नान्तः सतां सम्मदम् ॥६७।। आदेशं देव ! यद्येवं, स्वच्छेन चेतसा । हेमदण्डानिमानत्र, तदहं कारये रयात् ॥६८॥ इत्यन्तःस्मितवस्तुपालसचिवादेशाल्लसत्तेजसस्तेजःपालमहामतिर्व्यरचयत् कल्याणदण्डानिमान् । प्रत्येकं हरहासहारिमहसो येषां शिखासु स्थिता, नृत्यन्ति प्रतिवासरं परिचलत्केतुच्छलात् कीर्तयः ॥६९।। जुह्वन् पातकपादपैकदहने तीर्थेशधर्मे निजां, कर्मालीं न कति क्रतूनकृत स श्रीवस्तुपालानुजः ? । दण्डा यूपवदुच्चसुव्रतगृहक्ष्माभृद्भवायाममी, तत्तेनाऽम्बडमण्डलेश्वरयश:सिन्धौ समारोपिताः ॥७०।। १. पद्यमिदं पुरातनप्रबन्धसङ्ग्रहान्तर्गतवस्तुपालतेजःपालप्रबन्धे-"एकदा मन्त्री तेज:पालो भृगुपुरमायातः । तत्र श्रीमुनिसुव्रतचैत्याचार्यैः श्रीरासिल्लसूरिभिरुक्तम्-मन्त्रिन् ! सन्देशकमेकं शृणु । मन्त्रिणोक्तम्-आदिश्यताम् । अद्य पाश्चात्ययामिन्यां वृद्धा युवत्येका समेत्य प्राह" इत्युल्लेखानन्तरं निष्टङ्कितं वर्तते । पत्रम् ६२ । तथा उपदेशतरङ्गिण्यां ७४ तमपत्रेऽप्येवंरूपेणैव वर्त्तते । केवलं तत्र “श्रीमुनिसुव्रतचैत्यार्चकैराचार्यैरुक्तम्" इति वर्त्तते, न तत्र रासिल्लसूरेरन्यस्य वा कस्याप्याचार्यस्य नामोल्लेखो वर्त्तते इति ।। D:\sukarti.pm5\3rd proof
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy