SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ४२] 10 [वस्तुपालप्रशस्तिः श्रीयुगादिप्रभोर्वेश्मन्यर्बुदाचलमूनि यः । श्रेयसे मल्लदेवस्य, मल्लिदेवमतिष्ठिपत् ॥३३॥ बिभ्राणं परितो जिनेन्द्रभवनान्युच्चैश्चतुर्विंशति, तापोत्तीर्णसुवर्णदण्डकलशालङ्कारतारश्रियम् । यः शत्रुञ्जयदेवसेवनमनाः शत्रुञ्जयाख्यं जिनप्रसादं धवलक्कनामनि पुरे निर्मापयामासिवान् ॥३४॥ गोग्रहप्रोज्झितासूनां, देवभूयमुपेयुषाम् । राणभट्टारकाणां यस्तत्रागारमकारयत् ॥३५।। वार्षं तस्य पर: स्मेरपद्मां पीयूषबान्धवीम् । प्रपां चाप्रतिमा विश्वप्रीतिदां यो व्यधापयत् ॥३६।। पौषधशालाद्वितयं, यस्याऽऽस्ते तत्र मुनिभटाकीर्णम् । कलिशत्रुभीतिभङ्गरधर्मधराधीशदुर्गनिभम् ॥३७।। पुरोत्तमे स्तम्भनकाभिधाने, निवेशने पार्श्वजिनेश्वरस्य । योऽकारयत् काञ्चनकुम्भदण्डमखण्डधर्मा शिखरं गरीयः ॥३८।। नाभेयं नेमिनाथं च, तदीये गूढमण्डपे । सरस्वती जगत्यां च, स्थापयामास यः कृती ॥३९।। अकारयन्नगाकारं, प्राकारं परितोऽत्र यः । निदाघदमनक्रीडाप्रवृत्तं च प्रपाद्वयम् ॥४०॥ यश्चकार नवोद्धारधारि...........द्भुतवैभवाम् । सुधासहचरीं तत्र, वापी व्याकोशपङ्कजाम् ॥४१॥ भृगुनगरमौलिमण्डनमुनिसुव्रततीर्थनाथभवने यः । देवकुलिकासु विंशतिमितासु हैमानकारयद् दण्डान् ॥४२।। तस्य गर्भगृहोत्सङ्गे, यस्त्रैलोक्यदिवाकरौ । पार्श्वनाथ-महावीरौ, क्षान्तिधीरो न्यवीविशत् ॥४३॥ नगराख्ये महास्थाने, चैत्यमाद्यजिनेशितुः । येनोद्धृत्य समुद्दध्र, कीतिर्भरतचक्रिणः ॥४४।। 15 25 D:\sukarti.pm5\3rd proof
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy