SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ तृतीयं परिशिष्टम्] [३७ धराभारोद्धारे वचनरचनायां परपुरस्थितिप्लोषे दोषोदयविदलने चास्य पुरतः ॥१३।। रणे वितरणे चात्र, शस्त्रैर्वस्त्रैश्च वर्षति । अमित्र-मित्रयोः सद्यो, भिद्यते हृदयावनिः ॥१४॥ इमां समयवैषम्याद् , भ्रश्यन्तीं गूर्जरक्षितिम् ।। दोर्दण्डेनोद्धरन् वीरः, सैष शेष व्यशोषयत् ।।१५।। एतस्मिन् वसुधासुधाजलधरे श्रीवस्तुपाले जगज्जीवातौ सिचयोच्चयैर्नवनवैर्नक्तन्दिवं वर्षति । आस्तामन्यजनो घनोज्झितशशिज्योत्स्नाच्छवल्गद्गुणोद्भूतैरद्य दिगम्बराद्यपि यशोवासोभिराच्छादितम् ॥१६॥ विश्वस्मिन्नपि वस्तुपाल ! जगति त्वत्कीर्तिविस्फूर्तिभिः, श्वेतद्वीपति कालिकाकलयति स्वर्मालिकानां मुखम् । यत्तैस्तावककीर्तिसौरभमदान्मन्दारमन्दादरे, वर्गे स्वर्गसदां सदा च्युतनिजव्यापारदुःस्थैः स्थितम् ॥१७।। भाग्यभूः किमसावस्तु , वस्तुपालः स्तुतेः पदम् ? । येनार्थ-कामावप्येतो, धर्मकर्मकृतौ कृतौ ॥१८॥ तमःसर्वान्नीने प्र[म]दलहरीनर्तितभुजं, भुजङ्गीभिर्गीते जितसितकरे यस्य यशसि । शिर:क्रोडक्रीडद्धरणिभरभुग्नोऽपि भजते, भुजङ्गेश: क्लेशव्ययमुदयदानन्दमुदितः ॥१९।। यद्यात्रासु तुरङ्गनिष्ठुरखुरैः क्षोणीतलं ताडितं, कम्पः सम्पदमाससाद हृदये किन्तु प्रतिक्ष्माभृताम् । उद्भूतानि रजांसि मांसलतमान्याकाशमाशिश्रियु स्तेषामेवं मुखावनौ पुनरहो ! मालिन्यमुन्मीलितम् ॥२०॥ १. पद्यमिदं नरचन्द्रनाम्ना निर्दिष्टं प्राचीनलेखसङ्ग्रह भाग २ मध्ये ४२सङ्ख्यगिरिनारसत्कशिलालेखे सप्तमपद्यतयाऽपि वर्तते ॥ २. पद्यमिदं धर्माभ्युदयमहाकाव्यत्रयोदर्शसर्गप्रान्ते वर्त्तते ॥ D:\sukarti.pm5\3rd proof
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy